View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.4 अरण्यकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुर्थस्सर्गः ।

ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुमहाजाभुजौ ॥ 1 ॥

एष दाशरथी रामः सत्यवान् शीलवान् शुचिः ।
रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ 2 ॥

मामृका भक्षयिष्यंति शार्दूलाद्वीपिनस्तथा ।
मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ 3 ॥

तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ 4 ॥

तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभंज ह ।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ 5 ॥

स भग्नबाहुस्सविग्नो निपपाताशु राक्षसः ।
धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ॥ 6 ॥

मुष्टिभिर्जानुभिः पद्भिः सूदयंतौ तु राक्षसम् ।
उद्यम्योद्यम्य चाप्येनं स्थंडिले निष्पिपेषतुः ॥ 7 ॥

स विद्धो बहुभिर्बाणैः खंगाभ्यां च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ 8 ॥

तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् ।
भयेष्वभयदश्श्रीमानिदं वचनमब्रवीत् ॥ 9 ॥

तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते ।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ 10 ॥

कुंजरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण ।
वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः ॥ 11 ॥

इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कंठे पादेन वीर्यवान् ॥ 12 ॥

तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः ।
इदं प्रोवाच काकुत्थ्सं विराधः पुरुषर्षभम् ॥ 13 ॥

हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै ।
मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ ॥ 14 ॥

कौसल्यासुप्रजा राम तातस्त्वं विदितो मया ।
वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ 15 ॥

अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
तुंबुरुर्नाम गंधर्वः शप्तो वैश्रवणेन ह ॥ 16 ॥

प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः ।
यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ।
तदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति ॥ 17 ॥

अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह ।
इति वैश्रवणो राजा रंभासक्तमुवाच ह ॥ 18 ॥

तव प्रसादान्मुक्तोऽहमिहशापात्सुदारुणात् ।
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप ॥ 19 ॥

इतो वसति धर्मात्मा शरभंगः प्रतापवान् ॥ 20 ॥

अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः ।
तं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति ॥ 21 ॥

अवटे चापि मां राम प्रक्षिप्य कुशली व्रज ।
रक्षसां गतसत्त्वानामेष धर्मस्ससनातनः ।
अवटे ये निधीयंते तेषां लोकास्सनातनाः ॥ 22 ॥

एवमुक्त्वा तु काकुत्थ्सं विराधश्शरपीडितः ।
बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ 23 ॥

तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ।
कुंजरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण ॥ 24 ॥

वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः ।
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कंठे पादेन वीर्यवान् ॥ 25 ॥

ततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम् ।
अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः ॥ 26 ॥

तं मुक्तकंठंनिक्षिप्य शंकुकर्णं महास्वनम् ।
विराधं प्राक्षिपच्छ्वभ्रे नदंतं भैरवस्वनम् ॥ 27 ॥

तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ ।
मुदान्वितौ चिक्षिपतुर्भयावहं नदंतमुत्क्षिप्य बिले तु राक्षसम् ॥ 28 ॥

अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ ।
समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ 29 ॥

स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण यथार्थमीप्सितः ।
निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति ॥ 30 ॥

तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने ।
बिलं च रामेणातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ 31 ॥

प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्या प्रदरे निहत्य तौ ।
ननंदतुर्वीतभयौ महावने शिलाभिरंतर्दधतुश्च राक्षसम् ॥ 32 ॥

ततस्तु तौ कांचनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् ।
विजह्रतु स्तौ मुदितौ महावने दिवि स्थितौ चंद्रदिवाकराविव ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: