View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.70 अयोध्याकांड - सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्ततितमस्सर्गः ।

भरते ब्रुवति स्वप्नं दूतास्ते क्लांतवाहनाः ।
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् ॥ 1 ॥

समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ 2 ॥

भरते ब्रुवति स्वप्नं दूतास्ते क्लांतवाहनाः ।
प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् ॥ 3 ॥

समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ 4 ॥

पुरोहितस्त्वां कुशलं प्राह सर्वे च मंत्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ 5 ॥

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
प्रतिगृह्य विशालक्ष मातुलस्य च दापय ॥ 6 ॥

अत्र विशंतिकोट्यस्तु नृपतेर्मातुलस्य ते ।
दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज ॥ 7 ॥

प्रतिगृह्य तु तत्सर्वं स्वनुरक्त स्सुहृज्जने ।
दूतानुवाच भरतः कामैस्संप्रतिपूज्य तान् ॥ 8 ॥

कच्चित्सुकुशली राजा पिता दशरथो मम ।
कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥ 9 ॥

आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।
अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ 10 ॥

कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा ॥ 11 ॥

आत्मकामा सदा चंडी क्रोधना प्राज्ञमानिनी ।
अरोगा चापि मे माता कैकेयी किमुवाच ह ॥ 12 ॥

एवमुक्तास्तु ते दूताः भरतेन महात्मना ।
ऊचुस्सप्रश्रयं वाक्यमिदं तं भरतं तदा ॥ 13 ॥

कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ।
श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ 14 ॥

भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत ।
आपृच्चेऽहं महाराजं दूतास्संत्वरयंति माम् ॥ 15 ॥

एवमुक्त्वा तु तान् दूतान्भरतः पार्थिवात्मजः ।
दूतै स्संचोदितो वाक्यं मातामहमुवाच ह ॥ 16 ॥

राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः ।
पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ 17 ॥

भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।
तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ 18 ॥

गच्छ तातानुजाने त्वां कैकेयीसुप्रजास्त्वया ।
मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ 19 ॥

पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः ।
तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ 20 ॥

तस्मै हस्त्युत्तमांश्चित्रान्कंबलानजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ 21 ॥

रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ।
सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ॥ 22 ॥

तथाऽमात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् ।
ददावश्वपतिः क्षिप्रं भरतायानुयायिनः ॥ 23 ॥

ऐरावतानैंद्रशिरान्नागान्वै प्रियदर्शनान् ।
खरान् श्रीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ ॥ 24 ॥

अंतःपुरेऽति संवृद्धान् व्याघ्रवीर्यबलान्वितान् ।
दंष्ट्राऽऽयुधान्महाकायान् शुनश्चोपायनं ददौ ॥ 25 ॥

स दत्तं केकयेंद्रेण धनं तन्नाभ्यनंदत ।
भरतः कैकयीपुत्रो गमनत्वरया तदा ॥ 26 ॥

बभूव ह्यस्य हृदये चिंता सुमहती तदा ।
त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥ 27 ॥

स स्ववेश्माभ्यतिक्रम्य नरनागाश्वसंवृतम् ।
प्रपेदे सुमहच्छ्रीमान्राजमार्गमनुत्तमम् ॥ 28 ॥

अभ्यतीत्य ततोऽपश्यदंतःपुरमुदारधीः ।
ततस्तद्भरतश्श्रीमानाविवेशानिवारितः ॥ 29 ॥

स मातामहमापृच्छ्य मातुलं च युधाजितम् ।
रथमारुह्य भरतश्शत्रुघ्नसहितो ययौ ॥ 30 ॥

रथान्मंडल चक्रांश्च योजयित्वा परश्शतम् ।
उष्ट्र गोऽश्वबलैर्भृत्या भरतं यांतमन्वयुः ॥ 31 ॥

बलेन गुप्तो भरतो महात्मा सहार्यकस्याऽत्मसमैरमात्यैः ।
आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेंद्रलोकात् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्ततितमस्सर्गः ॥




Browse Related Categories: