View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.12 किष्किंधाकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्वादशस्सर्गः ।

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ 1 ॥

स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयंदिशः ॥ 2 ॥

स विसृष्टो बलवता बाणस्स्वर्णपरिष्कृतः ।
भित्त्वा सालान् गिरिप्रस्थं सप्त भूमिं विवेश ह ॥ 3 ॥

प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः ।
निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥ 4 ॥

तांदृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुंगवः ।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ 5 ॥

स मूर्ध्ना न्यपतदभ्मौ प्रलंबीकृतभूषणः ।
सुग्रीवः परमप्रीतो राघवाय कृतांजलिः ॥ 6 ॥

इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ 7 ॥

सेंद्रानपि सुरान्सर्वांस्त्वं बाणैः पुरुषर्षभ ।
समर्थस्समरे हंतुं किं पुन र्वालिनं प्रभो ॥ 8 ॥

येन सप्तमहासाला गिरिर्भूमिश्च दारिताः ।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ 9 ॥

अद्य मे विगतश्शोकः प्रीतिरद्य परा मम ।
सुहृदं त्वां समासाद्य महेंद्रवरुणोपमम् ॥ 10 ॥

तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।
वालिनं जहि काकुत्स्थ मया बद्धोऽयमंजलिः ॥ 11 ॥

ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतं वचः ॥ 12 ॥

अस्माद्गच्छेम किष्किंधां क्षिप्रं गच्छ त्वमग्रतः ।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगंधिनम् ॥ 13 ॥

सर्वे ते त्वरितं गत्वा किष्किंधां वालिनः पुरीम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन्गहने वने ॥ 14 ॥

सुग्रीवो व्यनदद्घोरं वालिनोऽऽह्वानकारणात् ।
गाढं परिहितो वेगान्नादैर्भिंदन्निवांबरम् ॥ 15 ॥

तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।
निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव ॥ 16 ॥

ततस्सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।
गगने ग्रहयोर्घोरं बुधांगारकयोरिव ॥ 17 ॥

तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः ।
जघ्नतुस्समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ ॥ 18 ॥

ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्यतु ।
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ 19 ॥

यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ।
ततो न कृतवान्बुद्धिं मोक्तुमंतकरं शरम् ॥ 20 ॥

एतस्मिन्नंतरे भग्नस्सुग्रीवस्तेन वालिना ।
अपश्यन्राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ 21 ॥

क्लांतो रुधिरसिक्तांगः प्रहारैर्जर्झरीकृतः ।
वालिनाऽभिद्रुतः क्रोधात्प्रविवेश महावनम् ॥ 22 ॥

तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ।
मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाद्युतिः ॥ 23 ॥

राघवोऽसि सह भ्रात्रा सह चैव हनूमता ।
तदेव वनमागच्छत्सुग्रीवो यत्र वानरः ॥ 24 ॥

तं समीक्ष्यागतं रामं सुग्रीवस्सहलक्ष्मणम् ।
ह्रीमांदीनमुवाचेदं वसुधामवलोकयन् ॥ 25 ॥

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ 26 ॥

तामेन वेलां वक्तव्यं त्वया राघव तत्त्वतः ।
वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ 27 ॥

तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ 28 ॥

सुग्रीव श्रूयातां तात क्रोधश्च व्यपनीयताम् ।
कारणं येन बाणोऽयं न मया स विसर्जितः ॥ 29 ॥

अलंकारेण वेषेण प्रमाणेन गतेन च ।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ 30 ॥

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥ 31 ॥

ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ।
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ॥ 32 ॥

जीवितांतकरं घोरं सादृश्यात्तु विशंकितः ।
मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ 33 ॥

त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ।
मौढ्यं च मम बाल्यं च ख्यापितं स्यात्कपीश्वर ॥ 34 ॥

दत्ताभयवधो नाम पातकं महदुच्यते ।
अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ॥ 35 ॥

त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् ।
तस्माद्युध्यस्व भूयस्त्वं मा मा शंकेश्च वानर ॥ 36 ॥

एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।
निरस्तमिषुणैकेन वेष्टमानं महीतले ॥ 37 ॥

अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।
येन त्वामभिजानीयां द्वंद्वयुद्धमुपागतम् ॥ 38 ॥

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ।
कुरु लक्ष्मण कंठेऽस्य सुग्रीवस्य महात्मनः ॥ 39 ॥

ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम् ।
लक्ष्मणो गजपुष्पीं तां तस्य कंठे व्यसर्जयत् ॥ 40 ॥

स तया शुशुभे श्रीमान् लतया कंठसक्तया ।
मालयेव बलाकानां ससंध्य इव तोयदः ॥ 41 ॥

विभ्राजमानो वपुषा रामवाक्यसमाहितः ।
जगाम सह रामेण किष्किंथां वालिपालिताम् ॥ 42 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्वादशस्सर्गः ॥




Browse Related Categories: