View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.45 अयोध्याकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

अनुरक्ता महात्मानं रामं सत्यपराक्रमम् ।
अनुजग्मुः प्रयांतं तं वनवासाय मानवाः ॥ 1 ॥

निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजनि ।
नैव ते संन्यवर्तंत रामस्यानुगता रथम् ॥ 2 ॥

अयोध्यानिलयानां हि पुरुषाणां महायशाः ।
बभूव गुणसंपन्नः पूर्णचंद्र इव प्रियः ॥ 3 ॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा ।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ 4 ॥

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ 5 ॥

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ 6 ॥

स हि कल्याणचारित्रः कैकेय्यानंदवर्धनः ।
करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ 7 ॥

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः ।
अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ 8 ॥

स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ 9 ॥

न च संतप्येद्यथा चासौ वनवासं गते मयि ।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ 10 ॥

यथा यथा दाशरथि र्धर्म एवास्थितोऽभवत् ।
तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ 11 ॥

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।
चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम् ॥ 12 ॥

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।
वयः प्रकंपशिरसो दूरादूचुरिदं वचः ॥ 13 ॥

वहंतो जवना रामं भो भो जात्यास्तुरंगमाः ।
निवर्तध्वं न गंतव्यं हिता भवत भर्तरि ॥ 14 ॥

कर्णवंति हि भूतानि विशेषेण तुरंगमाः ।
यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ 15 ॥

धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः ।
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥ 16 ॥

एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान् ।
अवेक्ष्य सहसा रामो रथादवततार ह ॥ 17 ॥

पद्भ्यामेव जगामाथ ससीत स्सहलक्ष्मणः ।
सन्निकृष्टपदन्यासो रामो वनपरायणः ॥ 18 ॥

द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः ।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ 19 ॥

गच्छंतमेव तं दृष्ट्वा रामं संभ्रांतचेतसः ।
ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ 20 ॥

ब्राह्मण्यं सर्वमेतत्त्वां ब्रह्मण्यमनुगच्छति ।
द्विजस्कंधाधिरूढास्त्वामग्नयोऽप्यनुयांत्यमी ॥ 21 ॥

वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।
पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये ॥ 22 ॥

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते ।
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ 23 ॥

या हि नः सततं बुद्धिर्वेदमंत्रानुसारिणी ।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ 24 ॥

हृदयेष्वेव तिष्ठंति वेदा ये नः परं धनम् ।
वत्स्यंत्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ 25 ॥

न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः ।
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्मपथे स्थितम् ॥ 26 ॥

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।
शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ 27 ॥

बहूनां वितता यज्ञा द्विजानां य इहागताः ।
तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ 28 ॥

भक्तिमंति हि भूतानि जंगमाजंगमानि च ।
याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ 29 ॥

अनुगंतुमशक्ता स्त्वां मूलैरुद्धतवेगिनः ।
उन्नता वायुवेगेन विक्रोशंतीव पादपाः ॥ 30 ॥

निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ।
पक्षिणोऽपि प्रयाचंते सर्वभूतानुकंपिनम् ॥ 31 ॥

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।
ददृशे तमसा तत्र वारयंतीव राघवम् ॥ 32 ॥

ततः सुमंत्रोऽपि रथाद्विमुच्य श्रांतान्हयान्संपरिवर्त्य शीघ्रम् ।
पीतोदकांस्तोयपरिप्लुतांगा नचारयद्वै तमसाविदूरे ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: