श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनत्रिंशस्सर्गः ।
शुकेनतुसमाख्यातांदृष्ट्वासहरियूथपान् ।
समीपस्थंचरामस्यभ्रातरंस्वंविभीषणम् ॥ 1 ॥
लक्ष्मणंचमहावीर्यंभुजंरामस्यदक्षिणम् ।
सर्ववानरराजंचसुग्रीवंभीमविक्रमम् ॥ 2 ॥
अंगदंचापिबलिनंवज्रहस्तात्मजात्मजम् ।
हनूमंतंचविक्रांतंजांबवंतंचदुर्जयम् ॥ 3 ॥
सुषेणंकुमुदंनीलंनलंचप्लवगर्षभम् ।
गजंगवाक्षंशरभंमैंदंचद्विविदंतथा ॥ 4 ॥
किंचिदाविग्नहृदयोजातक्रोधश्चरावणः ।
भर्त्सयामासतौवीरौकथांतेशुकसारणौ ॥ 5 ॥
अधोमुखौतौप्रणतावब्रवीच्छुकसारणौ ।
रोषगद्गदयावाचासंरब्धंपरुषंवचः ॥ 6 ॥
नतावत्सदृशंनामसचिवैरुपजीविभिः ।
विप्रियंनृपतेर्वक्तुंनिग्रहेप्रग्रहेप्रभोः ॥ 7 ॥
रिपूणांप्रतिकूलानांयुद्धार्थमभिवर्तताम् ।
उभाभ्यांसदृशंनामवक्तुमप्रस्तवेस्तवम् ॥ 8 ॥
आचार्यागुरवोवृद्धावृथावांपर्युपासिताः ।
सारंयद्राजशास्त्राणामनुजीव्यंनगृह्यते ॥ 9 ॥
गृहीतोवानविज्ञातोभारोऽज्ञानस्यवाह्यते ।
ईदृशैः सचिवैर्युक्तोमूर्खैर्दिष्ट्यधराम्यहम् ॥ 10 ॥
किंनुमृत्योर्भयंनास्तिवक्तुंमांपरुषंवचः ।
यस्यमेशासतोजिह्वाप्रयच्छतिशुभाशुभम् ॥ 11 ॥
अप्येवदहनंस्पृष्टवावनेतिष्ठंतिपादपाः ।
राजदोषपरामृष्टास्तिष्ठंतेनापराधिनः ॥ 12 ॥
हन्यामहंत्विमौपापौशत्रुपक्षप्रशंसकौ ।
यदिपूर्वोपकारैस्तुनक्रोधोमृदुतांव्रजेत् ॥ 13 ॥
अपध्वंसत गच्चध्वं सम्निकर्षाद् इतो मम ।
न हि वां हंतुं इच्चामि स्मरन्न् उपकृतानि वाम् ॥ 14 ॥
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवं उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥ 15 ॥
अब्रवीत्सदशग्रीवः समीपस्थंमहोदरम् ।
उपस्तापयमेशीघ्रंचारान्नीतिविशारदान् ॥ 16 ॥
महोदरस्तथोक्तस्तुशीघ्रमाज्ञापयच्चरान् ॥ 17 ॥
ततश्चारास्संत्वरिताःप्राप्ताःपार्थिवशासनात् ।
उपस्थिताःप्रांजलयोवर्धयित्वाजयशिषाः ॥ 18 ॥
तानब्रवीत्ततोवाक्यंरावणोराक्षसाधिपः ।
चारान्प्रत्यायितान् शूरान्भक्तान्विगतसाध्वसान् ॥ 19 ॥
इतोगच्छतरामस्यव्यवसायंपरीक्षथ ।
मंत्रिष्वभ्यंतरायेऽस्यप्रीत्यातेनसमागताः ॥ 20 ॥
कथंस्वपितिजागर्तिकिमन्यच्चकरिष्यति ।
विज्ञायनिपुणंसर्वमागंतव्यमशेषतः ॥ 21 ॥
चारेणविदितश्शत्रुःपंडितैर्वसुधाधिपैः ।
युद्धेस्वल्पेनयत्नेनसमासाद्यनिरस्यते ॥ 22 ॥
चारास्तुतेतथेत्युक्त्वाप्रहृष्टाराक्षसेश्वरम् ।
शार्दूलमग्रतःकृत्वाततश्चक्रुःप्रदक्षिणम् ॥ 23 ॥
ततस्तेतंमहात्मानंचाराराक्षससत्तमम् ।
कृत्वाप्रदक्षिणंजग्मुर्यत्ररामस्सलक्ष्मणः ॥ 24 ॥
तेसुवेलस्यशैलस्यसमीपेरामलक्ष्मणौ ।
प्रच्छन्नाददृशुर्गत्वाससुग्रीवविभीषणौ ॥ 25 ॥
प्रेक्षमाणाश्चमूंतांतुबभूवुर्भयविक्लबाः ।
तेतुधर्मात्मनादृष्टाराक्षसेंद्रेणराक्षसा ॥ 26 ॥
विभीषणेनतत्रस्थानिगृहीतायदृच्छया ।
शार्दूलोग्राहितस्त्वेकःपापोऽयमितिराक्षसः ॥ 27 ॥
मोचितस्सोऽपिरामेणवध्यमानःप्लवंगमैः ।
अनृशंस्येनरामेणमोचिताराक्षसाःपरे ॥ 28 ॥
वानरैरर्दितास्तेतुविक्रांतैर्लघुविक्रमैः ।
पुनर्लंकामनुप्राप्ताश्वसंतोनष्टचेतसः ॥ 29 ॥
ततोदशग्रीवमुपस्थितास्तेचाराबहिर्नित्यचरानिशाचराः ।
गिरेस्सुवेलस्यसमीपवासिनंन्यवेदयन्भीमबलंमहाबलाः ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनत्रिंशस्सर्गः ॥