View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.8 बालकांड - अष्टम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टमस्सर्गः ।

तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ॥ 1 ॥

चिंतयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं हयमेधेन किमर्थं न यजाम्यहम् ॥ 2 ॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मंत्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ 3 ॥

ततोऽब्रवीदिदं राजा सुमंत्रं मंत्रिसत्तमम् ।
शीघ्रमानय मे सर्वान्गुरूंस्तान् सपुरोहितान् ॥ 4 ॥

ततस्सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत्स तान् सर्वान् समस्तान्वेदपारगान् ॥ 5 ॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
परोहितं वसिष्ठं च ये चान्ये व्दिजसत्तमाः ॥ 6 ॥

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णंवचनमब्रवीत् ॥ 7 ॥

मम लालप्यमानस्य पुत्रार्थन्नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ 8 ॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचार्यताम् ॥ 9 ॥

ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ 10 ॥

ऊचुश्च परमप्रीतास्सर्वे दशरथं वचः ।
संभारास्संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥ 11 ॥

सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ 12 ॥

ततः प्रीतोऽभवद्राजा श्रुत्वा तद्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ 13 ॥

संभारास्संभ्रियंतां मे गुरूणां वचनादिह ।
समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम् ॥ 14 ॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शांतयश्चाभिवर्धंतां यथाकल्पं यथाविधि ॥ 15 ॥

शक्यः प्राप्तुमयं यज्ञस्सर्वेणापि महीक्षिता ।
नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे ॥ 16 ॥

छिद्रं हि मृगयंतेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ 17 ॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ 18 ॥

तथेति चाब्रुवन्सर्वे मंत्रिणःप्रत्यपूजयन् ।
पार्थिवेंद्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते ॥ 19 ॥

तथा द्विजास्ते धर्मज्ञा वर्धयंतो नृपोत्तमम् ।
अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ॥ 20 ॥

विसर्जयित्वा तान्विप्रान्सचिवानिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टोऽयं यथावत्क्रतुराप्यताम् ॥ 21 ॥

इत्युक्त्वा नृपशार्दूलस्सचिवान्समुपस्थितान् ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ 22 ॥

ततस्स गत्वा ताःपत्नीर्नरेंद्रो हृदयप्रियाः ।
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ॥ 23 ॥

तासां तेनातिकांतेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभंत पद्मानीव हिमात्यये ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टमस्सर्गः ॥




Browse Related Categories: