View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.99 अयोध्याकांड - एकोनशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनशततमस्सर्गः ।

निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ 1 ॥

ऋषिं वसिष्ठं संदिश्य मातृर्मे शीघ्रमानय ।
इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥ 2 ॥

सुमंत्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ 3 ॥

गच्छन्नेवाथ भरतस्तापसालय संस्थिताम् ।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ 4 ॥

शालायास्त्वग्रत स्तस्या ददर्श भरत स्तदा ।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ 5 ॥

स लक्ष्मणस्य रामस्य ददर्शाऽश्रममीयुषः ।
कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित्क्वचित् ॥ 6 ॥

ददर्श वने तस्मिन्महत स्संचयान्कृतान् ।
मृगाणां महिषाणां च करीषै शशीतकारणात् ॥ 7 ॥

गच्छन्नेव महाबाहुर्द्युतिमान्भरत स्तदा ।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ 8 ॥

मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।
नातिदूरे हि मन्येऽहं नदीं मंदाकिनीमितः ॥ 9 ॥

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।
अभिज्ञानकृतः पंथा अकाले गंतुमिच्छता ॥ 10 ॥

इदं चोदात्तदंतानां कुंजराणां तरस्विनाम् ।
शैलपार्श्वे परिक्रांतमन्योन्यमभिगर्जताम् ॥ 11 ॥

यमेवाधातुमिच्छंति तापसा स्सततं वने ।
तस्यासौ दृश्यते धूम स्संकुलः कृष्णवर्त्मनः ॥ 12 ॥

अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् ।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ 13 ॥

अथ गत्वा मुहूर्तंतु चित्रकूटं स राघवः ।
मंदाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ 14 ॥

जगत्यां पुरषव्याघ्र आस्ते वीरासने रतः ।
जनेंद्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ 15 ॥

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।
सर्वान्कामान्परित्यज्य वने वसति राघवः ॥ 16 ॥

इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ 17 ॥

एवं संविलपं स्तस्मिन्वने दशरथात्मजः ।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ 18 ॥

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ 19 ॥

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः ॥ 20 ॥

अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः ।
शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव ॥ 21 ॥

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिंदुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ 22 ॥

गोधा अन्गुलित्रैर् आसाक्तैः चित्रैः कान्चन भूषितैः ।
अरि सम्घैर् अनाधृष्यां मृगैः सिम्ह गुहां इव ॥ 23 ॥

एवं संविलपं स्तस्मिन्वने दशरथात्मजः ।
ददर्श महातीं पुण्यां पर्णशालां मनोरमाम् ॥ 24 ॥

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ 25 ॥

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः ॥ 26 ॥

अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः ।
शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव ॥ 27 ॥

महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिंदुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ 28 ॥

तं दृष्ट्वा भरतः श्रीमान् दुह्ख मोह परिप्लुतः ।
अभ्यधावत धर्म आत्मा भरतः कैकयी सुतः ॥ 29 ॥

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ 30 ॥

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
उटजे राममासीनं जटामंडलधारिणम् ॥ 31 ॥

तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।
ददर्श राममासीनमभितः पावकोपमम् ॥ 32 ॥

सिंहस्कंधं महाबाहुं पुंडरीकनिभेक्षणम् ।
पृथिव्यास्सागरांतायाः भर्तारं धर्मचारिणम् ॥ 33 ॥

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।
स्थंडिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ 34 ॥

तं दृष्ट्वा भरत श्श्रीमान् दुःखशोकपरिप्लुतः ।
अभ्यधावत धर्मात्मा भरतः कैकेयी सुतः ॥ 35 ॥

दृष्ट्वैव विललापाऽर्तो बाष्पसंदिग्धया गिरा ।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ 36 ॥

य स्संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।
वन्यैर्मृगैरुपासीन स्सोऽयमास्ते ममाग्रजः ॥ 37 ॥

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ 38 ॥

अधारयद्यो विविधाश्चित्रास्सुमनसस्तदा ।
सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ 39 ॥

यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः ।
शरीरक्लेशसंभूतं स धर्मं परिमार्गते ॥ 40 ॥

चंदनेन महार्हेण यस्यांगमुपसेवितम् ।
मलेन तस्यांगमिदं कथमार्यस्य सेव्यते ॥ 41 ॥

मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ 42 ॥

इत्येवं विलपंदीनः प्रस्विन्नमुखपंकजः ।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ 43 ॥

दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।
उक्त्वाऽर्येति सकृद्दीनं पुनर्नोवाच किंचन ॥ 44 ॥

बाष्पाभिहतकंठश्च प्रेक्ष्य रामं यशस्विनम् ।
आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्तदा ॥ 45 ॥

शत्रुघ्नश्चापि रामस्य ववंदे चरणौ रुदन् ।
तावुभौ स समालिंग्य रामश्चाश्रूण्यवर्तयत् ॥ 46 ॥

ततस्सुमंत्रेण गुहेन चैव समीयतु राजसुतावरण्ये ।
दिवाकरश्चैव निशाकरश्च यथाऽंबरे शुक्रबृहस्पतिभ्याम् ॥ 47 ॥

तान्पार्थिवान्वारणयूथपाभान्समागतां स्तत्र महत्यरण्ये ।
वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुंचन्प्रविहाय हर्षम् ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनशततमस्सर्गः ॥




Browse Related Categories: