View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.57 बालकांड - सप्तपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तपंचाशस्सर्गः ।

ततस्संतप्तहृदयः स्मरन्निग्रहमात्मनः ।
विनिश्श्वस्य विनिश्श्वस्य कृतवैरो महत्मना ॥ 1 ॥

स दक्षिणां दिशं गत्वा महिष्या सह राघव ।
तताप परमं घोरं विश्वामित्रो महत्तपः ॥ 2 ॥

फलमूलाशनो दांतश्चकार सुमहत्तपः ।
अथास्य जज्ञिरे पुत्रास्सत्यधर्मपरायणाः ।
हविष्यंदो मधुष्यंदो दृढनेत्रो महारथः ॥ 3 ॥

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ 4 ॥

चिता राजर्षिलोकास्ते तपसा कुशिकात्मज ।
अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ 5 ॥

एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ॥ 6 ॥

विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः ।
दुःखेन महताऽऽविष्टस्समन्युरिदमब्रवीत् ॥ 7 ॥

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
देवास्सर्षिगणास्सर्वे नास्ति मन्ये तपःफलम् ॥ 8 ॥

इति निश्चित्य मनसा भूय एव महातपाः ।
तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ 9 ॥

एतस्मिन्नेव काले तु सत्यवादी जितेंद्रियः ।
त्रिशंकुरिति विख्यात इक्ष्वाकुकुलवर्धनः ॥ 10 ॥

तस्य बुद्धिस्समुत्पन्ना यजेयमिति राघव ।
गच्छेयं स्वशरीरेण देवानां परमां गतिम् ॥ 11 ॥

स वसिष्ठं समाहूय कथयामास चिंतितम् ।
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ 12 ॥

प्रत्याख्यातो वसिष्ठेन स ययौदक्षिणां दिशम् ।
ततस्तत्कर्मसिद्ध्यर्थं पुत्रां स्तस्य गतो नृपः ॥ 13 ॥

वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
त्रिशंंकुस्सुमहातेजा श्शतं परमभास्वरम् ॥ 14 ॥

वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः ।
सोऽभिगम्य महात्मनस्सर्वानेव गुरोस्सुतान् ॥ 15 ॥

अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखः ।
अब्रवीत्सुमहाभगान्सर्वानेव कृतांजलिः ॥ 16 ॥

शरणं वः प्रपद्येऽहं शरण्यान् शरणागतः ।
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना ॥ 17 ॥

यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥ 18 ॥

शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ।
ते मां भवंतस्सिद्ध्यर्थं याजयंतु समाहिताः ॥ 19 ॥

सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम् ।
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ॥ 20 ॥

गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन ।
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ॥ 21 ॥

पुरोधसस्तु विद्वांसस्तारयंति सदा नृपान् ।
तस्मादनंतरं सर्वे भवंतो दैवतं मम ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तपंचाशस्सर्गः ॥




Browse Related Categories: