श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ शततमस्सर्गः ।
महोदरमहापार्श्वौहतौदृष्टवातुराक्ष ।
तस्मिंश्चनिहतेवीरेविरूपाक्षेमहाबले ॥ 1 ॥
आविवेशमहान् क्रोधोरावणंतुमहामृधे ।
सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ 2 ॥
निहतानाममात्यानांरुद्धस्यनगरस्य च ।
दुःखमेवापनेष्यामि हत्या तौ रामलक्ष्मणौ ॥ 3 ॥
रामवृक्षंरणेहमनिसीतापुष्पफलप्रदम् ।
प्रशाखायस्यसुग्रीवोजांबवान्कुमुदोनलः ॥ 4 ॥
तदस्त्रन् राघवः श्रीमानुत्तमास्त्रविदां वरः ।
जघान परमास्त्रेण गंधर्वेण महाद्युतिः ॥ 5 ॥
स दिशोदशघोषेणरथस्यातिरथोमहान् ।
नादयन् प्रययौतूर्णंराघवंचाभ्यधावत ॥ 6 ॥
पूरितातेनशब्देनसनदीगिरिकानना ।
संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा ॥ 7 ॥
तामसंसुमहाघोरंचकारास्त्रंसुदारुणम् ।
निर्ददाहकपीन् सर्वांस्तेप्रपेतुःसमंततः ॥ 8 ॥
उत्पपातरजोभूमौतैर्भग्नैःसंप्रधावितैः ।
न हितत्सहितुंशेकुर्भ्रह्मणानिर्मितंस्वयम् ॥ 9 ॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।
दृष्टवाभग्नानि शतशो राघवः पर्यवस्थितः ॥ 10 ॥
ततोराक्षसशार्दूलोविद्राव्यहरिवाहिनीम् ।
स ददर्शततोरामंतिष्ठंतमपराजितम् ॥ 11 ॥
लक्ष्मणेनसहभ्रात्राविष्णुनावासवंयथा ।
अलिखंतमिवाकाशमवष्टभ्यमहद्धनुः ॥ 12 ॥
पद्मपत्रविशालाक्षंदीर्घबाहुमरिंदमम् ।
ततोरामोमहातेजाःसौमित्रिसहितोबली ॥ 13 ॥
वानरांश्चरणेभग्नानापतंतं च रावणम् ।
समीक्ष्यराघवोहृष्टोमध्येजग्राहकार्मुकम् ॥ 14 ॥
विस्फारयितुमारेभेततः स धनुरुत्तमम् ।
महावेगंमहानादंनिर्भंदन्निवमेदिनीम् ॥ 15 ॥
रावणस्य च बाणौघैरामविस्फारितेन च ।
शब्देनराक्षसास्तेन पेतुश्च शतशस्तदा ॥ 16 ॥
तयोःशरपथंप्राप्यरावणोराजपुत्रयोः ।
स बभौ च यथाराहुःसमीपशशिसूर्ययोः ॥ 17 ॥
तमिच्छन् प्रधमं योद्धुंलक्ष्मणोनिशितैःशरैः ।
मुमोचधनुरायम्यशरानग्निशिखोपमान् ॥ 18 ॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।
बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ 19 ॥
एकमेकेनबाणेनत्रिभिस्त्रीन् दशभिर्दश ।
लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥ 20 ॥
अभ्यतिक्रम्यसौमित्रिंरावणःसमितिंजयः ।
आससादरणेरामंस्थितंशैलमिवापरम् ॥ 21 ॥
स राघवंसमासाद्यक्रोधसंरक्तलोचनः ।
व्यसृजच्छरवर्षाणिरावणो राक्षसेश्वरः ॥ 22 ॥
शराधारास्ततोरामोरावणस्यधनुश्च्युताः ।
दृष्टवैवापतिताःशीघ्रंभल्लान् जग्राहसत्वरम् ॥ 23 ॥
तान् शरौघांस्ततोभल्लैस्तीक्ष्णैश्चिच्छेदराघवः ।
दीप्यमानान् महाघोरान्क्रुद्धानाशीविषानिव ॥ 24 ॥
राघवोरावणंतूर्णंरावणोराघवंतथा ।
अन्योन्यंविविधैस्तीक्ष्णैःशरवर्षैर्ववर्षतुः ॥ 25 ॥
चेरतुश्चचिरंचित्रंमंडलंसव्यदक्षिणम् ।
बाणवेगात्समुत्क्षिप्तावन्योन्यमपराजितौ ॥ 26 ॥
तयोर्भूतानिवित्रेसुर्युगपत्संप्रयुध्यतोः ।
रौद्रयोःसायकमुचोर्यमांतकनिकाशयोः ॥ 27 ॥
सततंविविधैर्बाणैर्बभूवगगनंतदा ।
घनैरिवातपापायेविद्युन्मालाससमाकुलैः ॥ 28 ॥
गवाक्षितमिवाकाशंबभूवशरवृष्टिभिः ।
महावेगैस्सुतीक्ष्णैग्रैर्गृध्रपत्रैःसुवाजितैः ॥ 29 ॥
शरांधकारमाकाशंचक्रतुःप्रथमंतदा ।
गतेऽस्तं तपने चापि महामेघाविवोथतितौ ॥ 30 ॥
तयोरभून्महद्युद्धमन्योन्यवथकांक्षिणोः ।
अनासाद्यमच्नित्यं च वृत्रवासवयोरिव ॥ 31 ॥
उभौहिपरमेष्वासावुभौयुद्धविशारदौ ।
उभावस्त्रविदां मुख्यावुभौ युद्धेविचेरतुः ॥ 32 ॥
उभौहियेनव्रजतस्तेनतेनशरोर्मयः ।
ऊर्मयोवायुनाविद्धा जग्मुः सागरयोरिव ॥ 33 ॥
ततःसंसक्तहस्तस्तुरावणोलोकरावणः ।
नराचमालांरामस्यललाटेप्रत्यमुंचत ॥ 34 ॥
रौद्रचापप्रयुक्तांतांनीलोत्पलदलप्रभाम् ।
शिरसाधारयद्रामो न व्यथमभ्यपद्यत ॥ 35 ॥
अथमंत्रानभिजपन्रौद्रमस्तमुदीरयन् ।
शरान् भूयःसमादाय रामः क्रोधसमन्वितः ॥ 36 ॥
मुमोच च महातेजाश्चापमायम्यवीर्यवान् ।
तेमहामेघसंकाशेकवचेपतिताःशराः ॥ 37 ॥
अवध्येराक्षसेंद्रस्य न व्यथांजनयंस्तदा ।
पुनरेवाधतंरामोरथस्थंराक्षसाधिपम् ॥ 38 ॥
ललाटेपरमास्त्रणसर्वास्त्रकुशलोऽभिनत् ।
तेभित्त्वाबाणरूपाणिपंचशीर्षाइवोरगाः ॥ 39 ॥
श्वसंतोविविशुर्भूमिंरावणप्रतिकूलिताः ।
निहत्यराघवस्यास्त्रंरावणःक्रोधमूर्छितः ॥ 40 ॥
असुरंसुमहाघोरमन्यदस्त्रं चकारसः ।
सिंहव्याघ्रमुखांश्चापिकंककाकमुखानपि ॥ 41 ॥
गृध्रश्येनमुखांश्चापिशृगाववदनांस्तथा ।
ईहामृगमुखांश्चापिव्यादितास्यान् भयावहान् ॥ 42 ॥
पंचास्यान् लेलिहानांश्चससर्जनिशितान् शरान् ।
शरान् खरमुखांश्चान्यान्वराहमुखसंश्रितान् ॥ 43 ॥
श्वानकुक्कुटवक्त्रांश्चमकराशीविषाननान् ।
एतांश्चान्यांश्चमायावीससर्जनिशितान् शरान् ॥ 44 ॥
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ।
अचिंतयित्वा तान्बाणान्समाश्लिष्या च लक्ष्मणम् ॥ 45 ॥
ससर्जास्त्रं महोत्साहः पावकः पावकोपमः ।
अग्निदीप्तमुखान्बाणांस्तत्रसूर्यमुखानपि ॥ 46 ॥
चंद्रार्धचंद्रवक्रांश्चधूमकेतुमुखानपि ।
ग्रहनक्षत्रवर्णांश्चमहोल्कामुखसंस्थितान् ॥ 47 ॥
विद्युजजिह्वोपमांश्चापिससर्ज विविधान् शरान् ।
तेरावणशराघोराराघवास्त्रसमाहताः ॥ 48 ॥
विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।
तदस्त्रंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ॥ 49 ॥
हृष्टानेदुस्ततःसर्वेकपयःकामरूपिणः ।
सुग्रीवप्रमुखावीराःसंपरिक्षिप्यराघवम् ॥ 50 ॥
ततस्तदस्त्रंविनिहत्यराघवःप्रसह्यतद्रावणबाहुनिःसृतम् ।
मुदान्वितोदाशरथिर्महात्माविनेदुरुच्चैर्मुदिताःकपीश्वराः ॥ 51 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे शततमस्सर्गः ॥