View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.40 अरण्यकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चत्वारिंशस्सर्गः ।

मारीचेन तु तद्वाक्यं क्षमं युक्तं च निशाचरः ।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ 1 ॥

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ 2 ॥

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥ 3 ॥

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ 4 ॥

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ 5 ॥

अवश्यंतु मया तस्य संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥ 6 ॥

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेंद्रैरपि सुरासुरैः ॥ 7 ॥

दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि ।
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ 8 ॥

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यतांजलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ 9 ॥

वाक्यमप्रितकूलं तु मृदुपूर्वं हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ 10 ॥

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।
नाभिनंदति तद्राजा मानार्हो मानवर्जितम् ॥ 11 ॥

पंच रूपाणि राजानो धारयंत्यमितौजसः ।
अग्नेरिंद्रस्य सोमस्य वरुणस्य यमस्य च ॥ 12 ॥

औष्ण्यं तथा विक्रमं च सौम्यं दंडं प्रसन्नताम् ।
धारयंति महात्मानो राजानः क्षणदाचर ॥ 13 ॥

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौरात्म्यात्परुषं वक्तुमिच्छसि ॥ 14 ॥

गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।
मयोक्तं तव चैतावत्संप्रत्यमितविक्रमः ॥ 15 ॥

अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 16 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिंदुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 17 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिंदुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
प्रलोभयित्वा वैदेहीं यथेष्टं गंतुमर्हसि ॥ 18 ॥

त्वां तु मायामृगं दृष्ट्वा कांचनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ 19 ॥

अपक्रांते तु काकुत्स्थे दूरं यात्वाप्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ 20 ॥

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति संभ्रांतः सौमित्रिरपि सौहृदात् ॥ 21 ॥

अपक्रांते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आनयिष्यामि वैदेहीं सहस्राक्षश्शचीमिव ॥ 22 ॥

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥ 23 ॥

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।
अहं त्वानुगमिष्यामि सरथो दंडकावनम् ॥ 24 ॥

प्राप्य सीतामयुद्धेन वंचयित्वा तु राघवम् ।
लंकां प्रतिगमिष्यामि कृतकार्यस्सह त्वया ॥ 25 ॥

न चेत्करोषि मारीच हन्मि त्वामहमद्य वै ।
एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ 26 ॥

आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ।
एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: