View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.31 बालकांड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकत्रिंशस्सर्गः ।

अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनांतरात्मना ॥ 1 ॥

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः ॥ 2 ॥

अभिवाद्य मुनिश्रेष्ठं ज्वलंतमिव पावकम् ।
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ 3 ॥

इमौ स्म मुनिशार्दूल किंकरौ समुपस्थितौ ।
आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥ 4 ॥

एवमुक्ता स्ततस्ताभ्यां सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ 5 ॥

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तस्य यास्यामहे वयम् ॥ 6 ॥

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं धनुरत्नं च तत्र तद्रष्टुमर्हसि ॥ 7 ॥

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ 8 ॥

नास्य देवा न गंधर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथंचन मानुषाः ॥ 9 ॥

धनुषस्तस्य वीर्यं तु जिज्ञासंतो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ 10 ॥

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ 11 ॥

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥ 12 ॥

आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गंधैर्धूपैश्चागरुगंधिभिः ॥ 13 ॥

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा ।
सर्षिसंघ स्सकाकुत्स्थः आमंत्र्य वनदेवताः ॥ 14 ॥

स्वस्ति वोऽस्तु गमिष्यामि सिद्वस्सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवंतं शिलोच्चयम् ॥ 15 ॥

प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ 16 ॥

तं प्रयांतं मुनिवरमन्वयादनुसारिणम् ।
शकटीशतमात्रं तु प्रायेण ब्रह्मवादिनाम् ॥ 17 ॥

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ 18 ॥

निवर्तयामास ततः पक्षिसंघान् मृगानपि ।
ते गत्वा दूरमध्वानं लंबमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥ 19 ॥

तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ 20 ॥

रामोऽपि सहसौमित्रिर्मुनीं स्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ 21 ॥

अथ रामो महातेजाः विश्वामित्रं महामुनिम् ।
पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ 22 ॥

भगवन् कोऽन्वयं देशस्समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ 23 ॥

चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकत्रिंशस्सर्गः ॥




Browse Related Categories: