View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.33 बालकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ 1 ॥

वायुस्सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ 2 ॥

पितृमत्यस्स्म भद्रं ते स्वच्छंदे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ 3 ॥

तेन पापानुबंधेन वचनं न प्रतीच्छता ।
एवं ब्रुवंत्यस्सर्वास्स्म वायुना निहता भृशम् ॥ 4 ॥

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ 5 ॥

क्षांतं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ 6 ॥

अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च यत् क्षांतं त्रिदशेषु विशेषतः ॥ 7 ॥

यादृशी वः क्षमा पुत्र्यस्सर्वासामविशेषतः ।
क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिकाः ॥ 8 ॥

क्षमा यशः क्षमा धर्मः क्षमया निष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥ 9 ॥

मंत्रज्ञो मंत्रयामास प्रदानं सह मंत्रिभिः ।
देशकालौ प्रदानस्य सदृशे प्रतिपादनम् ॥ 10 ॥

एतस्मिन्नेव काले तु चूली नाम महातपाः ।
ऊर्ध्वरेताश्शुभाचारो ब्राह्मं तप उपागमत् ॥ 11 ॥

तप्यंतं तमृषिं तत्र गंधर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिला तनया तदा ॥ 12 ॥

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ 13 ॥

स च तां कालयोगेन प्रोवाच रघुनंदन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ 14 ॥

परितुष्टं मुनिं ज्ञात्वा गंधर्वी मधुरस्वरा ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ 15 ॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ॥ 16 ॥

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ 17 ॥

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनस्सुतम् ॥ 18 ॥

स राजा सौमदेयस्तु पुरीमध्यवसत्तदा ।
कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ 19 ॥

स बुद्धिं कृतवान् राजा कुशनाभस्सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ 20 ॥

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनांतरात्मना ॥ 21 ॥

यथाक्रमं ततः पाणीन् जग्राह रघुनंदन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ 22 ॥

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।
युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ॥ 23 ॥

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ॥ 24 ॥

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥ 25 ॥

सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गंधर्वी स्नुषास्ताः प्रत्यनंदत ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: