View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.118 युद्धकांड - अष्टादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टादशाधिकशततमस्सर्गः ।

तांतुपाश्वस्थितांप्रह्वांरामस्संप्रेक्ष्यमैथिलीम् ।
हृदयांतर्गतंक्रोधव्याहर्तुमुपचक्रमे ॥ 1 ॥

एषासिनिर्जिताभद्रेशत्रुंजित्वारणाजिरे ।
पौरुषाद्यदनुष्ठेयंमयैतदुपपादितम् ॥ 2 ॥

गतोऽस्म्यंतममर्षस्यधर्षणासंप्रमार्जिता ।
अवमानश्चशत्रुश्चयुगपन्निहतौमया ॥ 3 ॥

अद्यमेपौरुषंदृष्टमद्यमेसफल्श्रमः ।
अद्यतीर्णप्रतिज्ञोऽत्वाप्रभवाम्यद्यचात्मनः ॥ 4 ॥

यात्वंविरहितानीताचलचित्तेनरक्षसा ।
दैवसंपादितोदोषोमानुषेणमयाजितः ॥ 5 ॥

संप्राप्तमवमानंयस्तेजसा न प्रमार्जति ।
कस्तस्यपुरुषार्थोमहताप्यल्पचेतसः ॥ 6 ॥

लंघनं च समुद्रस्यलंकायाश्चापिमर्धनम् ।
सफलंतस्य च श्लाघ्यमद्यकर्महनूमतः ॥ 7 ॥

युद्धेविक्रमतश्चैवहितंमंत्रयतस्तथा ।
सुग्रीवस्यससैन्यस्यसफलोऽद्यपरिश्रमः ॥ 8 ॥

विभीषणस्य च तथासफलोऽद्यपरिश्रमः ।
विगुणंभ्रातरंत्यक्त्वायोमांस्वयमुपस्थितः ॥ 9 ॥

इत्येवंवदत्श्रुत्वासीतारामस्यतद्वचः ।
मृगीवोत्फुल्लनयनाबभूवाश्रुपरिप्लुता ॥ 10 ॥

पश्यतस्तांतुरामस्यसमीपेहृदयप्रियाम् ।
जनवादभयाद्राज्ञोबभूवहृदयंद्विधा ॥ 11 ॥

सीतामुत्पलपत्राक्षींनीलकुंचितमूर्थजाम् ।
अवदद्वैवरारोहंमध्येवानररक्षसाम् ॥ 12 ॥

यत्कर्तव्यंमनुष्येणधर्षणांप्रतिमार्जता ।
तत्कृतंरावणंहत्वामयेदंमानकांक्षिणा ॥ 13 ॥

निर्जिताजीवलोकस्यतपसाभावितात्मना ।
अगस्त्येनदुराधर्षामुनिनादक्षिणेवधिक् ॥ 14 ॥

विदितश्चास्तुभत्रंतेयोऽयंरणपरिश्रमः ।
सुतीर्णःसुहृदांवीर्यान्नत्वदर्थंमयाकृतः ॥ 15 ॥

रक्षतातुमयावृत्तपमवादं च सर्वतः ।
प्रख्यातस्यात्मवंशस्यव्यंग्यं च परिमार्जता ॥ 16 ॥

प्राप्तचारित्रसंदेहाममप्रतिमुखेस्थिता ।
दीपोनेत्रातुरस्येवप्रतिकूलासिमेदृढम् ॥ 17 ॥

तद्गच्छत्वानुजानेऽद्ययथेष्टंजनकात्मजे ।
एतादशदिशोभद्रेकार्यमस्ति न मेत्वया ॥ 18 ॥

कःपुमांस्तुकुलेजातस्स्त्रयंपरगृहाषिताम् ।
तेजस्वीपुनरादद्यात्सुहृल्लेख्येनचेतसा ॥ 19 ॥

रावणांकपरिक्लिष्टांदृष्टांदुष्टेनचक्षुषा ।
कथंत्वापुनरादद्यांकुलंव्यपदिशन् महत् ॥ 20 ॥

तदर्थंनिर्जितामेत्वंयशःप्रत्याहृतंमया ।
नास्तिमेत्यय्यभिष्वंगोयथेष्टंगम्यतामितः ॥ 21 ॥

तदद्यव्याहृतंभद्रेमयैतत् कृतबुधदिना ।
लक्ष्मणेनाथभरतेकुरुबुधदिंयथासुखम् ॥ 22 ॥

शत्रुघ्नेवाथसुग्रीवेराक्षसेवाविभीषणे ।
निवेशयमनस्सीतेयथावासुखमात्मनः ॥ 23 ॥

न हित्वांरावणोदृष्टवादिव्यरूपांमनोरमाम् ।
मर्षयेतचिरंसीतेस्वगृहेपर्यवस्थिताम् ॥ 24 ॥

ततःप्रियार्हश्रवणातदप्रियंप्रियादुपश्रुत्यचिरस्यमैथिली ।
मुमोचबाष्पंसुभृशंप्रवेपितागजेंद्रहस्ताभिहतेवसल्लकी ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टादशाधिकशततमस्सर्गः ॥




Browse Related Categories: