View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.20 अरण्यकांड - विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ विंशस्सर्गः ।

ततश्शूर्पणखा घोरा राघवाश्रममागता ।
राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया ॥ 1 ॥

ते रामं पर्णशालायामुपविष्टं महाबलम् ।
ददृशुस्सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ 2 ॥

तांदृष्ट्वा राघवश्श्रीमानागतांस्तां च राक्षसीम् ।
अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ 3 ॥

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनंतरः ।
इमानस्या वधिष्यामि पदवीमागतानिह ॥ 4 ॥

वाक्यमेतत्ततश्श्रुत्वा रामस्य विदितात्मनः ।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ 5 ॥

राघवोऽपि महच्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ 6 ॥

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।
प्रविष्टौ सीतया सार्धं दुश्चरं दंडकावनम् ॥ 7 ॥

फलमूलाशनौ दांतौ तापसौ धर्मचारिणौ ।
वसंतौ दंडकारण्ये किमर्थमुपहिंसथ ॥ 8 ॥

युष्मान्पापात्मकान्हंतुं विप्रकारान्महाहवे ।
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ 9 ॥

तिष्ठतैवात्र संतुष्टा नोपावर्तितुमर्हथ ।
यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ 10 ॥

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाश्शूलपाणयः ॥ 11 ॥

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ 12 ॥

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनी ।
अस्माकमग्रतः स्थातुं किं पुनर्योद्दुमाहवे ॥ 13 ॥

एहि बाहुप्रयुक्तैर्नः परिघैश्शूलपट्टिसैः ।
प्राणांस्त्यक्षसि वीर्यं च धनुश्च करपीडितम् ॥ 14 ॥

इत्येवमुक्त्वा संकृद्धा राक्षसास्ते चतुर्दश ।
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ 15 ॥

तानि शूलानि काकुत्स्थस्समस्तानि चतुर्दश ।
तावद्भिरेव चिच्छेद शरैः कांचनभूषणैः ॥ 16 ॥

ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान् ।
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ 17 ॥

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।
मुमोच राघवो बाणान्वज्रानिव शतक्रतुः ॥ 18 ॥

रुक्मपुंखाश्च विशिखा दीप्ता हेमविभूषिताः ।
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ॥ 19 ॥

विनिष्पेतुस्तदा भूमौ न्यमज्जंताशनिस्वनाः ।
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ॥ 20 ॥

निपेतुश्शोणितार्द्रांगा विकृता विगतासवः ।
तान् दृष्ट्वा पतितान्भूमौ राक्षसी क्रोधमूर्छिता ॥ 21 ॥

परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ।
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता ॥ 22 ॥

पपात पुनरेवार्ता सनिर्यासेव सल्लकी ।
पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ 23 ॥

भ्रातुस्समीपे शोकार्ता ससर्ज निनदं मुहुः ॥ 24 ॥

सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ।
निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः ।
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे विंशस्सर्गः ॥




Browse Related Categories: