View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.56 सुंदरकांड - षट्पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षट्पंचाशस्सर्गः ।

ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम् ।
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ 1 ॥

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं हनुमंतमभाषत ॥ 2 ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ 3 ॥

शरैस्तु संकुलां कृत्वा लंकां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 4 ॥

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ 5 ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ 6 ॥

क्षिप्रमेष्यति काकुत्स्थः हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ 7 ॥

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ 8 ॥

ततस्स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ 9 ॥

तुंगपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।
सोत्तरीयमिवांभोदैः शृंगांतरविलंबिभिः ॥ 10 ॥

बोध्यमानमिव प्रीत्या दिवाकरकरैश्शुभैः ।
उन्मिषंतमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ 11 ॥

तोयौघननिस्स्वनैर्मंद्रैः प्राधीतमिव पर्वतम् ।
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ 12 ॥

देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ॥ 13 ॥

वेपमानमिव श्यामैः कंपमानैश्शरद्वनैः ।
वेणुभिर्मारुतोद्धूतैः कूजंतमिव कीचकैः ॥ 14 ॥

निश्श्वसंतमिवामर्षाद्घोरैराशीविषोत्तमैः ।
नीहारकृतगंभीरैर्ध्यायंतमिव गह्वरैः ॥ 15 ॥

मेघपादनिभैः पादैः प्रक्रांतमिव सर्वतः ।
जृंंभमाणमिवाऽकाशे शिखरैरभ्रमालिभिः ॥ 16 ॥

कूटैश्च बहुधा कीर्णैश्शोभितं बहुकंदरैः ।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ 17 ॥

लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ।
नानामृगगणाकीर्णं धातुनिष्यंदभूषितम् ॥ 18 ॥

बहुप्रस्रवणोपेतं शिलासंचयसंकटम् ।
महर्षियक्षगंधर्वकिन्नरोरगसेवितम् ॥ 19 ॥

लतापादपसंघातं सिंहाध्युषितकंदरम् ।
व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् ॥ 20 ॥

तमारुरोह हनुमान् पर्वतं पवनात्मजः ।
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ 21 ॥

तेन पादतलाक्रांता रम्येषु गिरिसानुषु ।
सघोषास्समशीर्यंत शिलाश्चूर्णीकृतास्ततः ॥ 22 ॥

स तमारुह्य शैलेंद्रं व्यवर्धत महाकपिः ।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणांभसः ॥ 23 ॥

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।
ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ 24 ॥

स मारुत इवाऽकाशं मारुतस्यात्मसंभवः ।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ 25 ॥

स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।
ररास सह तैर्भूतैः प्रविशन्वसुधातलम् ॥ 26 ॥

कंपमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥ 27 ॥

निपेतुर्भूतले रुग्णाश्शक्रायुधहता इव ।
कंदरांतरसंस्थानां पीडितानां महौजसाम् ॥ 28 ॥

सिंहानां निनदो भीमो नभो भिंदन् स शुश्रुवे ।
त्रस्तव्यावृत्तवसना व्याकुलीकृतभूषणाः ॥ 29 ॥

विद्याधर्यः समुत्पेतुस्सहसा धरणीधरात् ।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥ 30 ॥

निपीडितशिरोग्रीवा व्यचेष्टंत महाहयः ।
किन्नरोरगंधर्वयक्षविद्याधरास्तदा ॥ 31 ॥

पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।
स च भूमिधरः श्रीमान्बलिना तेन पीडितः ॥ 32 ॥

सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ॥ 33 ॥

धरण्यां समतां यातः स बभूव धराधरः ।
स लिलंघयिषुर्भीमं सलीलं लवणार्णवम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षट्पंचाशस्सर्गः ॥




Browse Related Categories: