श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वाशीतितमस्सर्गः ।
तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम् ।
ददर्श बुद्धिसंपन्नः पूर्णचंद्रो निशामिव ॥ 1 ॥
आसनानि यथान्यायमार्याणां विशतां तदा ।
वस्त्रांगरागप्रभया द्योतिता सा सभोत्तमा ॥ 2 ॥
सा विद्वज्जनसंपूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचंद्रेव शर्वरी ॥ 3 ॥
राज्ञस्तु प्रकृती स्सर्वा स्समग्राः प्रेक्ष्य धर्मवित् ।
इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ 4 ॥
तात राजा दशरथ स्स्वर्गतो धर्ममाचरन् ।
धनधान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ 5 ॥
रामस्तथा सत्यधृतिस्सतां धर्ममनुस्मरन् ।
नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ 6 ॥
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकंटकम् ।
तद्भुंक्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ 7 ॥
उदीच्या श्च प्रतीच्या श्च दाक्षिणात्याश्च केवलाः ।
कोट्यापरांतास्सामुद्रारत्नान्यभिहरंतुते ॥ 8 ॥
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः ।
जगाम मनसा रामं धर्मज्ञो धर्मकांक्षया ॥ 9 ॥
सबाष्पकलया वाचा कलहंसस्वरो युवा ।
विललाप सभामध्ये जगर्हे च पुरोहितम् ॥ 10 ॥
चरितब्रह्मचर्यस्य विद्यास्नातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ 11 ॥
कथं दशरथाज्जातो भवेद्राज्यापहारकः ।
राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ॥ 12 ॥
ज्येष्ठ श्श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः ।
लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥ 13 ॥
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।
इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ 14 ॥
यद्धि मात्रा कृतं पापं नाहं तदपि रोचये ।
इहस्थो वनदुर्गस्थं नमस्यामि कृतांजलिः ॥ 15 ॥
राममेवानुगच्छामि राजा स द्विपदां वरः ।
त्रयाणामपि लोकानां राज्यमर्हति राघवः ॥ 16 ॥
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः ।
हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ 17 ॥
यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।
वने तत्रैव वत्स्यामि यथाऽर्यो लक्ष्मणस्तथा ॥ 18 ॥
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् ।
समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम् ॥ 19 ॥
विष्टिकर्मांतिका स्सर्वे मार्गशोधकरक्षकाः ।
प्रस्थापिता मया पूर्वं यत्रापि मम रोचते ॥ 20 ॥
एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः ।
समीपस्थमुवाचेदं सुमंत्रं मंत्रकोविदम् ॥ 21 ॥
तूर्णमुत्थाय गच्छ त्वं सुमंत्र मम शासनात् ।
यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ 22 ॥
एवमुक्त स्सुमंत्रस्तु भरतेन महात्मना ।
हृष्टस्तदाऽदिशत्सर्वं यथासंदिष्टमिष्टवत् ॥ 23 ॥
ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च ।
श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ 24 ॥
ततो योधांगना स्सर्वा भर्त्रून्सर्वान्गृहेगृहे ।
यात्रागमनमाज्ञाय त्वरयंति स्म हर्षिताः ॥ 25 ॥
ते हयैर्गोरथैश्शीघ्रैस्स्यंदनैश्च महाजवैः सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥ 26 ॥
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसन्निधौ ।
रथं मे त्वरयस्वेति सुमंत्रं पार्श्वतोऽब्रवीत् ॥ 27 ॥
भरतस्य तु तस्याज्ञां प्रतिगृह्य च हर्षितः ।
रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ 28 ॥
स राघव स्सत्यधृतिः प्रतापवान् ब्रुवन् सुयुक्तं दृढसत्यविक्रमः ।
गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥ 29 ॥
तूर्णं समुत्थाय सुमंत्र गच्छ बलस्य योगाय बलप्रधानान् ।
आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥ 30 ॥
ससूतपुत्रो भरतेन सम्यगाज्ञापितस्संपरिपूर्णकामः ।
शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं च ॥ 31 ॥
तत स्समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः ।
अयूयुजन्नुष्ट्रखरान्रथांश्च नागान्हयांश्चैव कुलप्रसूतान् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वाशीतितमस्सर्गः ॥