View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.37 किष्किंधाकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।
हनूमंतं स्थितं पार्श्वे सचिवंत्विदमब्रवीत् ॥ 1 ॥

महेंद्रहिमवद्विंध्यकैलासशिखरेषु च ।
मंदरे पांडुशिखरे पंचशैलेषु ये स्थिताः ॥ 2 ॥

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।
पर्वतेषु समुद्रांते पश्चिमायां च ये दिशि ॥ 3 ॥

आदित्यभवने चैव गिरौ संध्याभ्रसन्निभे ।
पद्मातालवनं भीमं संश्रिता हरिपुंगवाः ॥ 4 ॥

अंजनांबुदसंकाशाः कुंजरप्रतिमौजसः ।
अंजने पर्वते चैव ये वसंति प्लवंगमाः ॥ 5 ॥

मनश्शिला गुहावासा वानराः कनकप्रभाः ।
मेरुपार्श्वगताश्चैव ये धूम्रगिरिं संश्रिताः ॥ 6 ॥

तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।
पिबंतो मधुमैरेयं भीमवेगाः प्लवंगमाः ॥ 7 ॥

वनेषु च सुरम्येषु सुगंधिषु महत्सु च ।
तापसानां च रम्येषु वनांतेषु समंततः ॥ 8 ॥

तांस्तां स्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ।
सामदानादिभिः स्सर्वैराशु प्रेषय वानरान् ॥ 9 ॥

प्रेषिताः प्रथमं ये च मयादूता महाजवाः ।
त्वरणार्थं तु भूयस्त्वं हरीन् संप्रेषयापरान् ॥ 10 ॥

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।
इहाऽनयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ 11 ॥

अहोभिर्दशभिर्ये च नागच्छंति ममाज्ञया ।
हंतव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ 12 ॥

शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ।
प्रयांतु कपिसिंहानां दिशो मम मते स्थिताः ॥ 13 ॥

मेघपर्वतसंकाशाश्छादयंत इवांबरम् ।
घोररूपाः कपिश्रेष्ठा यांतु मच्छासनादितः ॥ 14 ॥

ते गतिज्ञा गतिं ज्ञात्वा पृथिव्यां सर्ववानराः ।
आनयंतु हरीन् सर्वांस्त्वरिता शसनान्मम ॥ 15 ॥

तस्य वानर राजस्य श्रुत्वा वायुसुतो वचः ।
दिक्षु सर्वासु विक्रांतान्प्रेषयामास वानरान् ॥ 16 ॥

ते पदं विष्णुविक्रांतं पतत्रिज्योतिरध्वगाः ।
प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ 17 ॥

ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।
वानरा वानरान्सर्वान्रामहेतोरचोदयन् ॥ 18 ॥

मृत्युकालोपमस्याऽज्ञां राजराजस्य वानराः ।
सुग्रीवस्याययु श्श्रुत्वा सुग्रीवभयदर्शिनः ॥ 19 ॥

ततस्तेऽंजनसंकाशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥ 20 ॥

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे स्थिताः ।
संतप्त हेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ 21 ॥

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।
ततः कोटिसहस्राणि वानराणामुपागमन् ॥ 22 ॥

फलमूलेन जीवंतो हिमवंतमुपाश्रिताः ।
तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ 23 ॥

अंगारकसमानानां भीमानां भीमकर्मणाम् ।
विंध्याद्वानरकोटीनां सहस्राण्यपतंद्रुतम् ॥ 24 ॥

क्षीरोदवेलानिलयास्तमालवनवासिनः ।
नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥ 25 ॥

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा ।
आगच्छद्वानरी सेना पिबंतीव दिवाकरम् ॥ 26 ॥

ये तु त्वरयितुं याता वानरास्सर्ववानरान् ।
ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ 27 ॥

तस्मिन्गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।
सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ 28 ॥

अन्ननिष्यंदजातानि मूलानि च फलानि च ।
अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ 29 ॥

तदन्नसंभवं दिव्यं फलमूलं मनोहरम् ।
यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ 30 ॥

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।
औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ 31 ॥

तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च ।
आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ 32 ॥

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।
संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ 33 ॥

ते तु तेन मुहूर्तेन यूथपाश्शीघ्रगामिनः ।
किष्किंधां त्वरया प्राप्ता स्सुग्रीवो यत्र वानरः ॥ 34 ॥

ते गृहीत्वौषधीस्सर्वाः फलमूलं च वानराः ।
तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ 35 ॥

सर्वे परिगताश्शैलास्समुद्राश्च वनानि च ।
पृथिव्यां वानरास्सर्वे शासनादुपयांति ते ॥ 36 ॥

एवं श्रुत्वा ततो हृष्ट स्सुग्रीवः प्लवगाधिपः ।
प्रतिजग्राह तत्प्रतीतस्तेषां सर्वमुपायनम् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: