View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.9 अयोध्याकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ नवमस्सर्गः ।

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना ।
दीर्घमुष्णं विनिश्वस्य मंथरामिदमब्रवीत् ॥ 1 ॥

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ 2 ॥

इदं त्विदानीं संपश्य केनोपायेन मंथरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ 3 ॥

एवमुक्ता तया देव्या मंथरा पापदर्शिनी ।
रामार्थमुपहिंसंती कैकेयीमिदमब्रवीत् ॥ 4 ॥

हंतेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ 5 ॥

किं न स्मरसि कैकेयि स्मरंती वा निगूहसे ।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ 6 ॥

मयोच्यमानं यदि ते श्रोतुं छंदो विलासिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ 7 ॥

श्रुत्वैवं वचनं तस्या मंथरायास्तु कैकेयी ।
किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥ 8 ॥

कथय त्वं ममोपायं केनोपायेन मंथरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ 9 ॥

एवमुक्ता तया देव्या मंथरा पापदर्शिनी ।
रामार्थमुपहिंसंती कुब्जा वचनमब्रवीत् ॥ 10 ॥

तव दैवासुरे युद्धे सह राजर्षिभिः पतिः ।
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥ 11 ॥

दिशमास्थाय वै देवि दक्षिणां दंडकान्प्रति ।
वैजयंतमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ 12 ॥

स शंबर इति ख्यातश्शतमायो महासुरः ।
ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः ॥ 13 ॥

तस्मिन्महति संग्रामे पुरुषान्क्षतविक्षतान् ।
रात्रौ प्रसुप्तान्घ्नंति स्म तरसाऽऽसाद्य राक्षसाः ॥ 14 ॥

तत्राकरोन्महद्युद्धं राजा दशरथस्तदा ।
असुरैश्च महाबाहुश्शस्त्रैश्च शकलीकृतः ॥ 15 ॥

अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।
तत्रापि विक्षतश्शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ 16 ॥

तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥ 17 ॥

गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना ।
अनभिज्ञाम्ह्यहं देवि त्वयैव कथिता पुरा ॥ 18 ॥

कथैषा तव तु स्नेहान्मनसा धार्यते मया ।
रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥ 19 ॥

तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश ॥ 20 ॥

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
प्रजाभावगतस्नेहस्स्थिरः पुत्रो भविष्यति ॥ 21 ॥

क्रोधागारं प्रविश्याऽद्य क्रुद्धेवाश्वपतेस्सुते ।
शेष्वाऽनंतर्हितायां त्वं भूमौ मलिनवासिनी ॥ 22 ॥

मास्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ।
रुदंती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥ 23 ॥

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥ 24 ॥

न त्वां क्रोधयितुं शक्तो न क्रृद्धां प्रत्युदीक्षितुम् ।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥ 25 ॥

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
मंदस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥ 26 ॥

मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
दद्याद्दशरथो राजा मास्म तेषु मनः कृथाः ॥ 27 ॥

यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात् ।
तौ स्मारय महाभागे सोऽर्थो न त्वामतिक्रमेत् ॥ 28 ॥

यदातु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ 29 ॥

रामं प्रव्राजयारण्ये नव वर्षाणि पंच च ।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभः ॥ 30 ॥

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम् ।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ 31 ॥

रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।
एवं सिद्ध्यंति पुत्रस्य सर्वार्थास्तव भामिनि ॥ 32 ॥

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।
भरतश्च हतामित्रस्तव राजा भविष्यति ॥ 33 ॥

येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥ 34 ॥

सुगृहीतमनुष्यश्च सुहृद्भिस्सार्धमात्मवान् ।
प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥ 35 ॥

रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ 36 ॥

हृष्टा प्रतीता कैकेयी मंथरामिदमब्रवीत् ।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ 37 ॥

कैकेयी विस्मयं प्राप्ता परं परमदर्शना ।
कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिथायिनीम् ॥ 38 ॥

पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये ।
त्वमेव तु ममाऽर्थेषु नित्ययुक्ता हितैषिणी ॥ 39 ॥

नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।
संति दुस्संस्थिताः कुब्जा वक्राः परमदारुणाः ॥ 40 ॥

त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।
उरस्तेऽभिनिविष्टं वै यावत्स्कंधात् समुन्नतम् ॥ 41 ॥

अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।
परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥ 42 ॥

विमलेंदुसमं वक्त्रमहोराजसि मंथरे ।
जघनं तव निर्घुष्टं रशनादामशोभितम् ॥ 43 ॥

जंघे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ ।
त्वमायताभ्यां सक्थिभ्यां मंथरे क्षौमवासिनी ॥ 44 ॥

अग्रतो मम गच्छंती राजहंसीव राजसे ।
आसन्याश्शंबरे मायास्सहस्रमसुराधिपे ॥ 45 ॥

सर्वास्त्वयि निविष्टास्ता भूयश्चान्यास्सहस्रशः ।
तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥ 46 ॥

मतयः क्षत्रविद्याश्च मायाश्चात्र वसंति ते ।
अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥ 47 ॥

अभिषिक्ते च भरते राघवे च वनं गते ।
जात्येन च सुवर्णेन सुनिष्टप्तेन मंथरे ॥ 48 ॥

लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ 49 ॥

कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ।
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ 50 ॥

चंद्रमाह्वयमानेन मुखेनाप्रतिमानना ।
गमिष्यसि गतिं मुख्यां गर्वयंती द्विषज्जनम् ॥ 51 ॥

तवापि कुब्जाः कुब्जायास्सर्वाभरणभूषिताः ।
पादौ परिचरिष्यंति यथैव त्वं सदा मम ॥ 52 ॥

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ 53 ॥

गतोदके सेतुबंधो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणि राजानमनुदर्शय ॥ 54 ॥

तथा प्रोत्साहिता देवी गत्वा मंथरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ 55 ॥

अनेकशतसाहस्रं मुक्ताहारं वरांगना ।
अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ 56 ॥

ततो हेमोपमा तत्र कुब्जावाक्यवशं गता ।
संविश्य भूमौ कैकेयी मंथरामिदमब्रवीत् ॥ 57 ॥

इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि ।
वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम् ॥ 58 ॥

न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।
एष मे जीवितस्यांतो रामो यद्यभिषिच्यते ॥ 59 ॥

अथो पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः ।
उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम् ॥ 60 ॥

प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे ।
अतो हि कल्याणि यतस्व तत्तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ 61 ॥

तथाऽतिविद्धा महिषी तु कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः ।
निधायहस्तौ हृदयेऽतिविस्मिता शशंस कुब्जां कुपिता पुनः पुनः ॥ 62 ॥

यमस्य वा मां विषयं गतामितो निशाम्य कुब्जे प्रतिवेदयिष्यसि ।
वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति ॥ 63 ॥

अहं हि नैवास्तरणानि न स्रजो न चंदनं नांजनपानभोजनम् ।
न किंचिदिच्छामि न चेह जीवितं न चेदितो गच्छति राघवो वनम् ॥ 64 ॥

अथैतदुक्त्वा वचनं सुदारुणं निधाय सर्वाभरणानि भामिनी ।
असंवृतामास्तरणेन मेदिनीं तदाऽधिशिश्ये पतितेव किन्नरी ॥ 65 ॥

उदीर्णसंरंभतमोवृतानना तथाऽवमुक्तोत्तममाल्यभूषणा ।
नरेंद्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका ॥ 66 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे नवमस्सर्गः ॥




Browse Related Categories: