View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.46 किष्किंधाकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

गतेषु वानरेंद्रेषु रामस्सुग्रीवमब्रवीत् ।
कथं भवान्विजानीते सर्वं वै मंडलं भुवः ॥ 1 ॥

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ 2 ॥

यदा तु दुंदुभिं नाम दानवं महिषाकृतिम् ।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ 3 ॥

तदा विवेश महिषो मलयस्य गुहां प्रति ।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ 4 ॥

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।
न च निष्क्रामते वाली तदा संवत्सरे गते ॥ 5 ॥

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ 6 ॥

अथाऽहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।
शिला पर्वतसंकाशा बिलद्वारि मया कृता ॥ 7 ॥

अशक्नुव न्निष्क्रमितुं महिषो विनशेदिति ।
ततोऽहमागां किष्किंधां निराशस्तस्य जीविते ॥ 8 ॥

राज्यं च सुमहत्प्राप्य तारया रुमया सह ।
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ 9 ॥

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।
ततोऽहमददां राज्यं गौरवाद्भययंत्रितः ॥ 10 ॥

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेंद्रियः ।
परिकालयते क्रोधाद्धावंतं सचिवैस्सह ॥ 11 ॥

ततोऽहं वालिना तेन साऽनुबद्धः प्रधावितः ।
नदीश्च विविधाः पश्यन्वनानि नगराणि च ॥ 12 ॥

आदर्शतलसंकाशा ततो वै पृथिवी मया ।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ 13 ॥

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।
पर्वतन्श्च नदी रम्यास्सरांसि विविधानि च ॥ 14 ॥

उदयं तत्र पश्यामि पर्वतं धातुमंडितम् ।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ 15 ॥

परिकालयमानस्तु वालिनाऽभिद्रुत स्तदा ।
पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ 16 ॥

पुनरावर्तमानस्तु वालिनाऽभिद्रुतोद्रुतम् ।
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ।
विंध्यपादपसंकीर्णां चंदनद्रुमशोभिताम् ॥ 17 ॥

द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपराम् ।
पश्चिमां च दिशं प्राप्ता वालिना समभिद्रुतः ॥ 18 ॥

संपश्यन्विविधांदेशानस्तं च गिरिसत्तमम् ।
प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां संप्रधावितः ॥ 19 ॥

हिमवंतं च मेरुं च समुद्रं च तथोत्तरम् ।
यदा न विंदं शरणं वालिना समभिद्रुतः ॥ 20 ॥

तदा मां बुद्धिसंपन्नो हनूमान्वाक्यमब्रवीत् ।
इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ॥ 21 ॥

मतंगेन तदा शप्तो ह्यस्मिन्नाश्रममंडले ।
प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ॥ 22 ॥

तत्र वासस्सुखोऽस्माकं निरुद्विग्नो भविष्यति ।
ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥ 23 ॥

न विवेश तदा वाली मतंगस्य भयात्तदा ।
एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: