View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.41 सुंदरकांड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।
तस्माद्देशादपक्रम्य चिंतयामास वानरः ॥ 1 ॥

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।
त्रीनुपायानतिक्रम्य चतुर्थः इह विद्यते ॥ 2 ॥

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।
न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ 3 ॥

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।
हतप्रवीरा हि रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ 4 ॥

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ 5 ॥

न ह्येकस्साधको हेतुस्स्वल्पस्यापीह कर्मणः ।
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ 6 ॥

इहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् ।
परात्मसम्मर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम् ॥ 7 ॥

कथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।
तथैव खल्वात्मबलं च सारवत्सम्मानयेन्मां च रणे दशाननः ॥ 8 ॥

ततस्समासाद्य रणे दशाननं समंत्रिवर्गं सबलप्रयायिनम् ।
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाऽहमितः पुनर्व्रजे ॥ 9 ॥

इदमस्य नृशंसस्य नंदनोपममुत्तमम् ।
वनं नेत्रमनःकांतं नानाद्रुमलतायुतम् ॥ 10 ॥

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।
अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः ॥ 11 ॥

ततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।
त्रिशूलकालायसपट्टिसायुधं ततो महद्युद्धमिदं भविष्यति ॥ 12 ॥

अहं तु तैः संयति चंडविक्रमै स्समेत्य रक्षोभिरसह्य विक्रमः ।
निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ 13 ॥

ततो मारुतवत्कृद्धो मारुतिर्भीमविक्रमः ।
ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् ॥ 14 ॥

ततस्तु हनुमान्वीरो बभंज प्रमदावनम् ।
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ 15 ॥

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ 16 ॥

नानाशकुंतविरुतैः प्रभिन्नैस्सलिलाशयैः ।
ताम्रैः किसलयैः क्लांतैः क्लांतद्रुमलतायुतम् ॥ 17 ॥

न बभौ तद्वनं तत्र दावानलहतं यथा ।
व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ 18 ॥

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।
शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम् ॥ 19 ॥

सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।
जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ 20 ॥

स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।
युयुत्सुरेको बहुभिर्महाबलैश्शिया ज्वलंस्तोरणमास्थितः कपिः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: