View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.54 अरण्यकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती ।
ददर्श गिरिशृंगस्थान्पंच वानरपुंगवान् ॥ 1 ॥

तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ 2 ॥

मुमोच यदि रामाय शंसेयुरिति मैथिली ।
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ 3 ॥

संभ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ।
पिंगाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥ 4 ॥

विक्रोशंतीं तथा सीतां ददृशुर्वानरर्षभाः ।
स च पंपामतिक्रम्य लंकामभिमुखः पुरीम् ॥ 5 ॥

जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ।
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ 6 ॥

उत्संगेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ।
वनानि सरितश्शैलांत्सरांसि च विहायसा ॥ 7 ॥

स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ।
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ 8 ॥

सरितां शरणं गत्वा समतीयाय सागरम् ।
संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ 9 ॥

वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ।
अंतरिक्षगता वाचस्ससृजुश्चारणास्तदा ॥ 10 ॥

एतदंतो दशग्रीव इति सिद्धास्तदाब्रुवन् ।
स तु सीतां विवेष्टंतीमंकेनादाय रावणः ॥ 11 ॥

प्रविवेश पुरीं लंकां रूपिणीं मृत्युमात्मनः ।
सोऽभिगम्य पुरीं लंकां सुविभक्तमहापथाम् ॥ 12 ॥

संरूढकक्ष्याबहुलं स्वमंतःपुरमाविशत् ।
तत्र तामसितापांगां शोकमोहपरायणाम् ॥ 13 ॥

निदधे रावणस्सीतां मयो मायामिवस्त्रियम् ।
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥ 14 ॥

यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ।
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ 15 ॥

यद्यदिच्छेत्तदेवास्या देयं मच्छंदतो यथा ।
या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ॥ 16 ॥

अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ।
तथोक्त्वा राक्षसीस्तास्तु राक्षसेंद्रः प्रतापवान् ॥ 17 ॥

निष्क्रम्यांतः पुरात्तस्मात्किंकृत्यमिति चिंतयन् ।
ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥ 18 ॥

स तांदृष्ट्वा महावीर्यो वरदानेन मोहितः ।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 19 ॥

नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 20 ॥

तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 21 ॥

बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।
सदूषणखरं युद्धे हतं रामेण सायकैः ॥ 22 ॥

तत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते ।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 23 ॥

निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ।
न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 24 ॥

तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 25 ॥

जनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता ।
प्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः ॥ 26 ॥

अप्रमादाच्च गंतव्यं सर्वैरपि निशाचरैः ।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 27 ॥

युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि ।
अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 28 ॥

ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।
विहाय लंकां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 29 ॥

ततस्तु सीतामुपलभ्य रावणः सुसंप्रहृष्टः परिगृह्य मैथिलीम् ।
प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: