View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.54 किष्किंधाकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
अथ मेने हृतं राज्यं हनूमानंगदेन तत् ॥ 1 ॥

बुद्ध्या ह्यष्टांगया युक्तं चतुर्बलसमन्वितम् ।
चतुर्दशगुणं मेने हनूमान्वालिनस्सुतम् ॥ 2 ॥

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ 3 ॥

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।
शुश्रूषमाणं तारस्य शक्रस्येव पुरंदरम् ॥ 4 ॥

भर्तुरर्थे परिश्रांतं सर्वशास्त्रविदांवरम् ।
अभिसंधातुमारेभे हनूमानंगदं ततः ॥ 5 ॥

स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।
भेदयामास तान्सर्वान् वानरान्वाक्यसंपदा ॥ 6 ॥

तेषु सर्वेषु भिन्नेषु ततोऽभीषयदंगदम् ।
भीषणैर्भहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ 7 ॥

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ 8 ॥

नित्यमस्थिरचित्ता हि कपयो हरिपुंगव ।
नाज्ञाप्यं विषहिष्यंति पुत्रदारान्विना त्वया ॥ 9 ॥

त्वां नैतेह्यनुयुंजेयुः प्रत्यक्षं प्रवदामि ते ।
यथायं जांबवान्नीलस्सुहोत्रश्च महाकपिः ॥ 10 ॥

न ह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः ।
दंडेन वा त्वया शक्यास्सुग्रीवादपकर्षितम् ॥ 11 ॥

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ 12 ॥

यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ।
एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ॥ 13 ॥

स्वल्पं हि कृतमिंद्रेण क्षिपता ह्यशनिं पुरा ।
लक्ष्मणो निशितैर्बाणैर्भिंध्यात्पत्रपुटं यथा ॥ 14 ॥

लक्ष्मणस्य च नाराचा बहवस्संति तद्विधाः ।
वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥ 15 ॥

अवस्थाने यदैव त्वमासिष्यसि परंतप ।
तदैव हरयस्सर्वे त्यक्ष्यंति कृतनिश्चयाः ॥ 16 ॥

स्मरंतः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
खेदिता दुःखशय्याभिस्त्वां करिष्यंति पृष्ठतः ॥ 17 ॥

स त्वं हीनस्सुहृद्भिश्च हितकामैश्च बंधुभिः ।
तृणादपि भृशोद्विग्नस्स्पंदमानाद्भविष्यसि ॥ 18 ॥

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।
अपवृत्तं जिघांसंतो महावेगा दुरासदाः ॥ 19 ॥

न च जातु न हिंस्युस्त्वा घोरा लक्ष्मणसायकाः ।
अपावृत्तं जिघांसंतो महावेगा दुरासदाः ॥ 20 ॥

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ 21 ॥

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।
शुचिस्सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥ 22 ॥

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।
तस्यापत्यं च नास्त्यन्यत्तस्मादंगद गम्यताम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: