श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ विंशस्सर्गः ।
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निस्संज्ञस्संज्ञावानिदमब्रवीत् ॥ 1 ॥
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ 2 ॥
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः ।
अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ 3 ॥
इमे शूराश्च विक्रांता भृत्या मेऽस्त्रविशारदाः ।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ 4 ॥
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत्प्राणांधरिष्यामि तावद्योत्स्ये निशाचरैः ॥ 5 ॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्रागमिष्यामि न रामं नेतुमर्हसि ॥ 6 ॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ 7 ॥
न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् ।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ 8 ॥
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।
यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत ॥ 9 ॥
चतुरंगसमायुक्तं मया च सहितं नय ।
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥ 10 ॥
दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि ।
चतुर्णामात्मजानां हि प्रीतिःपरमिका मम ॥ 11 ॥
ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि ।
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च ते च के ॥ 12 ॥
कथं प्रमाणाः के चैतान्रक्षंति मुनिपुंगव ।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥ 13 ॥
मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् ।
3 सर्वं मे शंस भगवन्कथं तेषां मया रणे ॥ 14 ॥
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।
4 तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥ 15 ॥
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥ 16 ॥
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।
श्रूयते हि महावीर्यो रावणो राक्षसाधिपः ॥ 17 ॥
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।
यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः ॥ 18 ॥
तेन संचोदितौ द्वौ तु राक्षसौ वै महाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥ 19 ॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥ 20 ॥
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
मम चैवाल्पभाग्यस्य दैवतं हि भवान्गुरुः ॥ 21 ॥
देवदानवगंधर्वा यक्षाःपतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥ 22 ॥
स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥ 23 ॥
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ।
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥ 24 ॥
अथ कालोपमौ युध्दे सुतौ सुंदोपसुंदयोः ॥ 25 ॥
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।
मारीचश्च सुबाहुश्च वीर्यवंतौ सुशिक्षितौ ।
तयोरन्यतरेणाहं योध्दा स्यां ससुहृद्गणः ॥ 26 ॥
इति नरपतिजल्पनाद्द्विजेंद्रं कुशिकसुतं सुमहान्विवेश मन्युः ।
सुहुत इव मखेऽग्निराज्यसिक्त स्समभवदुज्ज्वलितो महर्षिवह्निः ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे विंशस्सर्गः ॥