View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.22 युद्धकांड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वाविंशस्सर्गः ।

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।
अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ 1 ॥

शरनिर्दग्धतोयस्यपरिशुष्कस्यसागरः ।
मयाशोषितसत्त्वस्यपांसुरुत्पद्यतेमहान् ॥ 2 ॥

मत्कार्मुकविसृष्टेवशरवर्षेणसागर ।
पारंतेऽद्यगमिष्यंतिपदभिरेवप्लवंगमाः ॥ 3 ॥

विचिन्वन्नाभिजानासिपौरुषंनापिविक्रमम् ।
दानवालयसंतापंमत्तोनाधिगमिष्यसि ॥ 4 ॥

ब्राह्मेणास्त्रेणसंयोज्यब्रह्मदंडनिभं शरम् ।
संयोज्यधनुषिश्रेष्ठविचकर्षमहाबलः ॥ 5 ॥

तस्मिन्विविकृष्टेसहसाराघवेणशरासने ।
रोदसीसंपफालेवपर्वताश्चचकंपिरे ॥ 6 ॥

तमश्चलोकमाव्रतेदिशश्चवचकाशिरे ।
प्रतिचुक्षुभिरेचाशुसरांसिसरितस्तथा ॥ 7 ॥

तिर्यक्चसहानेक्षत्रैस्संगतौचंद्रभास्करौ ।
भास्करांशुभिरादीप्तंतमसाचसमावृतम् ॥ 8 ॥

चकाशेतदाकाशमुल्काशतविदीपितम् ।
अंतरिक्षाच्चनिर्घातानिर्जग्मुरतुलस्वनाः ॥ 9 ॥

वपुस्फुरुश्चघनादिव्यादिविमारुतपङ् ख्कयः ।
बभंजचतदावृक्षान्जलदानुद्वहन्नपिः ॥ 10 ॥

अरुजंश्चैनशैलाग्राशनिखराणिबभंजनः ।
दिविस्पृशोमहमेघास्संगतास्समहास्वनाः ॥ 11 ॥

मुमुचुर्वैद्युताननगींस्तेमहाशनयस्तदा ।
यानिभूतानिदृश्यानिचुक्रुशुश्चाशनेसमम् ॥ 12 ॥

अदृश्यानिचभूतानिमुमुचुर्भैरवस्वनम् ।
शिशियरेचाभिभूतानिसंत्रस्ताम्यद्विजंतिच ॥ 13 ॥

संप्रविव्यथिरेचापिवचपस्पंदिरेभयात् ।
सहाभूतैस्सतोयोर्मिस्सनागस्सहराक्षसः ॥ 14 ॥

सहसाऽभूत्ततोवेगाबदीमवेगोमहोदधिः ।
योजनंव्यतिचक्रामवेलामन्यत्रसम्ल्पवात् ॥ 15 ॥

तंतदासमतिक्रांतंनातिचक्रामराघवः ।
समुद्धतममित्रघ्नोरामोनदनदीपतिम् ॥ 16 ॥

ततोमथ्यात्समुद्रस्यसागरस्स्वयमुत्थितः ।
उदयन् हिमहाशैलान्मेरोरिवदिवाकरः ॥ 17 ॥

पन्नगैस्सहदीप्तास्यैस्समुद्रःप्रत्यदृश्यत ।
स्निग्धवैढूर्यसंकाशोजांबूनदविभूषणः ॥ 18 ॥

रक्तमाल्यांबरधरःपद्मपत्रनिभेक्षणः ।
सर्वपुष्पमयींदिव्यांशिरसाधारयन् स्रजम् ॥ 19 ॥

जातरूपमयैश्चैवतपनीयविभूषितैः ।
आत्मजानांचरत्नानांभूषितोभूषणोत्तमैः ॥ 20 ॥

धातुभिर्मंडितश्शैलोविविधैर्हिमवानिव ।
एकावलीमध्यगतंतरलंपाटलप्रभम् ॥ 21 ॥

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
अघूर्णिततरंगौघःकालिकानिलसंगुलः ॥ 22 ॥

गंगासिंदुप्रधाननाभिरापगाभिस्समावृतः ।
देवतानांसरूपाभिर्नानारूपाभिरीश्वरः ॥ 23 ॥

सागरस्समुपक्रम्यपूर्वमाम्नत्यरवीर्यवान् ।
अब्रवीत्प्रांजलिर्वाक्यंराघवंशरपाणिनम् ॥ 24 ॥

पृथिवीवायुराकाशमापोज्योतिश्चराघवः ।
स्वभावेसौम्य तिष्ठंतिशाश्वतंमार्गमाश्रिताः ॥ 25 ॥

तत्स्वभावोममाप्येषयदगाधोऽहमप्लवः ।
विकारस्तुभवेद्गाधएतत्तेप्रवदाम्यहम् ॥ 26 ॥

नकामान्नचलोभाद्वानभयातत्सापार्थिवात्मजः ।
ग्राहनकाकुलजलंस्तंबयेयंकथंजन ॥ 27 ॥

विधास्येरामः येनापिविषहिष्येह्यहंतथा ।
नग्राहाप्रहरिष्यंतियावत्सेनातरिष्यति ॥ 28 ॥

हरीणांतरणेरामकरिष्यामियथास्थलम् ।
तमब्रवीत्तदारामःउद्यतोहिनदीपते ।
अमोघोऽयंमहाबाणःकस्मिन् देशेनिपात्यताम् ॥ 29 ॥

रामस्यवचनंश्रुत्वातंचदृष्टवामहाशरम् ।
महोदधिर्महातेजाराघवंवाक्यमब्रवीत् ॥ 30 ॥

महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥ 31 ॥

उग्रदर्शनकर्माणोबहवस्तत्रदस्यवः ।
आभीरप्रमुखाःपापाःपिबंतिसलिलंमम ॥ 32 ॥

तैस्तुसंस्पर्शनंपापैर्नसहेपापकर्मभिः ।
अमोघःक्रियतांरामः तत्रतेषुशरोत्तमः ॥ 33 ॥

तस्यतद्वचनंश्रुत्वासागरस्यराघवः ।
मुमोचतंशरंदीप्तंवीरस्सागरदर्शनात् ॥ 34 ॥

तेनतन्मरुकांतारंपृथिव्याखलुविश्रुतम् ।
निपातितश्शरोयत्रवज्राशनिसमप्रभः ॥ 35 ॥

ननादचतदातत्रवसुधाशल्यपीडिता ।
तस्माद्ब्राणमुखात्तोयमुत्पपातरसातलात् ॥ 36 ॥

तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥ 37 ॥

अवधारणशब्दश्चदारुणस्समपद्यत ।
तस्मात्तद्बाणनिपातेनत्वपःकुक्षिष्वशोषयत् ॥ 38 ॥

विख्यातंत्रिषुलोकेषुमधुकांतारमेवतत् ॥ 39 ॥

मोक्षयित्वाततःकुक्षिंरामोदशरथात्मजः ।
वरंतस्मैददौविद्वान्मरवेऽमरविक्रमः ॥ 40 ॥

पशव्यश्चाल्परोगश्चफलमूलरसायुतः ।
बहुस्नेहोबहुक्षीरस्सुगधनिर्विविधौषधः ॥ 41 ॥

एवमेतैर्गुणैरुक्तोबहुभिस्संयुतोमरुः ।
रामस्यवरदानाच्चशिवःपंथाबभूवह ॥ 42 ॥

तस्मिन् दग्धेतदाकुक्षौसमुद्रस्सरितांपतिः ।
राघवंसर्वशास्त्रज्ञमिदंवचनमब्रवीत् ॥ 43 ॥

अयंसौम्यः नलोनामतनयोविश्वकर्मणः ।
पित्रादत्तवरशीमान्प्रतिमोविश्वकर्मणाः ॥ 44 ॥

एषसेतुंमहोत्साहःकरोतुमयिवानरः ।
तमहंधारयिष्यामियथाह्येषपितातथा ॥ 45 ॥

एवमुक्त्वोदधिर्नष्टस्समुत्थायनलस्तदा ।
अब्रवीद्वानरश्रेष्ठोवाक्यंरामंमहाबलः ॥ 46 ॥

अहंसेतुंकरिष्यामिविस्तीर्णेवरुणालये ।
पितुस्सामर्थ्यमास्थायतत्त्वमहामहोदधिः ॥ 47 ॥

अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः ।
ददौदंडभयाद्गाधंराघवायमहोदधिः ॥ 48 ॥

मममातुर्वरोदत्तोमंदरेविश्वकर्मणा ।
औरसस्तस्यपुत्रोऽहंसदृशोविश्वकर्मणा ॥ 49 ॥

नचाप्यहमनुक्तोवःप्रब्रूयामात्मनोगुणान् ।
समर्थश्चाप्यहंसेतुंकर्तुंवैवरुणालये ॥ 50 ॥

स्मारितोऽस्म्यहमेतेनतत्त्वमहामहोदधिः ।
काममद्वैवबध्नंतुसेतुंवानरपुंगवाः ॥ 51 ॥

ततोविसृष्टारामेणसर्वतोहरियूथपाः ।
अभिपेतुर्महारण्यंहृष्टाश्शतसहस्रशः ॥ 52 ॥

तेनगान्नगसंकाशाश्शाखामृगगणर्षभाः ।
बभंजुःवानरास्तत्रप्रचकर्षुश्चसागरम् ॥ 53 ॥

तेसालैश्चाश्वकर्णैश्चधवैशैश्चवानराः ।
कुटजैरर्जुनैस्तालैस्तिलकैसंतिशैरपि ॥ 54 ॥

बिल्वकैस्सप्तपर्णैश्चकर्णिकारैश्चसुपुष्पितैः ।
चूतैश्चाशोकवृक्षैश्चसागरंसमपूरयन् ॥ 55 ॥

समूलांश्चविमूलांश्चपादपान् हरिसत्तमाः ।
इंद्रकेतूनिवोद्यम्यप्रजह्रूर्वानरास्तरून् ॥ 56 ॥

इंद्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान् ॥ 57 ॥

हस्तिमतान्महाकायाःपाषाणांश्चमहाबलाः ।
पर्वतांश्चसमुत्पाट्ययन्स्सरैःपरिवहंतिच ॥ 58 ॥

प्रक्षिप्यमाणैरचलैस्सहसाजलमुद्दृतम् ।
समुत्ससर्पआकाशमवासर्पत्ततस्ततः ॥ 59 ॥

समुद्रंक्षोभयामासुर्वानराश्चस्समंततः ।
सूत्राण्यन्येप्रगृह्णांतिव्यायतंशतयोजनम् ॥ 60 ॥

नलश्चक्रेमहासेतुंमध्येनदनदीपतेः ।
सतदाक्रियतेसेतुर्वानरैर्घोरकर्मभिः ॥ 61 ॥

दंडानन्येप्रगृह्णंतिविचिन्वंतितथापरे ॥ 62 ॥

वानरैश्शतशस्तत्ररामस्याज्ञापुरस्सराः ।
मेघाभैःपर्वताग्रैश्चतृणैःकाष्ठैर्बबंधिरे ॥ 63 ॥

पुष्पिताग्रैश्चतरुभिस्सेतुंबध्नंतिवानराः ।
पाषाणांश्चगिरिप्रख्यागनिरीणांशिखराणिच ॥ 64 ॥

दृश्यंतेपरिधावंतोगृह्यदानवसन्निभाः ।
शिलानांक्षिप्यमाणानांशैलानांनिपात्यताम् ।
बभूवतुमुलश्शब्दस्तदातस्मिन्महोदधौ ॥ 65 ॥

कृतानिप्रथमेनाह्नायोजनानिचतुर्दश ।
प्रहृष्टैर्गजसंकाश्चैस्त्वरमाणैःप्लवंगमैः ॥ 66 ॥

द्वितीयेनतथैचाह्नायोजनानितुविंशतिः ।
कृतानिप्लवगैस्तूर्णंभीमकायैर्महाबलैः ॥ 67 ॥

अह्नातृतयेनतथायोजनानिकृतानिच ।
त्वरमाणैर्महाकायैरेकविंशतिरेवच ॥ 68 ॥

चतुर्थेनतथाचाह्नाद्वाविंशतिरथासिवा ।
योजनानिमहावेगैःकृतानित्वरितस्तुतैः ॥ 69 ॥

पंचमेनतथाचाह्नाप्लवगैःक्षिप्रकारिभिः ।
योजनानित्रयोविंशत्सुवेलमधिकृत्यवै ॥ 70 ॥

सवानरवरश्रशीमान्विश्वकर्मात्माजोबली ।
बबंधसागरेसेतुंयथाचाप्यतथापिता ॥ 71 ॥

बबंध सागरे सेतुं यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥ 72 ॥

ततोदेवस्सगंधर्वास्सिद्दाश्चपरमर्षयः ।
आगम्यगगनेतस्थुर्द्रष्टुकामास्तदद्बुतम् ॥ 73 ॥

दशयोजनविस्तीर्णंशतयोजनमायतम् ।
ददृशुर्देवगंधर्वानलसेतुंसुदुष्करम् ॥ 74 ॥

आप्लवंतःप्लवंतश्चगर्जंतश्चप्लवंगमाः ॥ 75 ॥

तदच्नित्यमसह्यंचह्यद्भुतंरोमहर्षणम् ।
ददृशुस्सर्वभूतानिसागरेसेतुबंधनम् ।
622.76 ।
तानिकोटिसहस्राणिवानराणांमहौजसाम् ।
बध्नंतस्सागरेसेतुंजुग्मुःपारंमहोदधेः ॥ 76 ॥

तानि कोटि सहस्राणि वानराणां महाओजसाम् ।
बध्नंतः सागरे सेतुं जग्मुः पारं महाउदधेः ॥ 77 ॥

ततःपारेसमुद्रस्यगदापाणिर्विभीषणः ।
परेषामभिघातार्थमतिष्ठत्सचिवैस्सहा ॥ 78 ॥

ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषां अभिघत अर्थं अतिष्ठत् सचिवैः सह ॥ 79 ॥

अयंहिविपुलोवीरसागरोमकरालयः ।
वैहायपौयुवामेतौवानरौतारयिष्यतः ॥ 80 ॥

अग्रतस्तस्यसैन्यस्यश्रीमान्रामस्सलक्ष्मणः ।
जगामधन्वीधर्मात्मासुग्रीवेणसमन्वितः ॥ 81 ॥

न्येमध्येनगच्छंतिपार्श्वतोऽन्येप्लवंगमाः ।
सलिलंप्रपतंतन्येमार्गमन्येनलेभिरे ॥ 82 ॥

केचिद्वैहायसगतास्सुपर्णाइवपुप्लुवुः ।
घोषेणमहतातस्यसिंधोर्घोषंसमुच्छ्रितम् ।
भीमंतर्दधेभीमातरंतीहरिवाहिनी ॥ 83 ॥

वानराणांहिसातीर्णावाहिनीनलसेतुना ।
तीरेनिविविशेराज्ञाबहुमूलफलोदके ॥ 84 ॥

तदद्बुतंराघवकर्मदुष्करंसमीक्ष्यदेवास्सहसिद्धचारणैः ।
उपेत्यरामसहसामहार्षिभिस्समभ्यषिंचन् सुशुभैर्जलैःपृथक् ।
6.2 2.86 ।
जयस्वशत्रून्नरदे वःमेदिनींससागरांपालयशाश्वतीस्समाः ।
इतीवरामंनरदेवसत्कृ तंशुभैर्वचोभिर्विविधैरपूजयन् ॥ 85 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वाविंशस्सर्गः ॥




Browse Related Categories: