View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.84 अयोध्याकांड - चतुरशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुरशीतितमस्सर्गः ।

ततो निविष्टां ध्वजिनीं गंगामन्वाश्रितां नदीम् ।
निषादराजो दृष्ट्वैव ज्ञातीन्संत्वरितोऽऽब्रवीत् ॥ 1 ॥

महतीयमितस्सेना सागराभा प्रदृश्यते ।
नास्यांतमधिगच्छामि मनसापि विचिंतयन् ॥ 2 ॥

यथा तु खलु दुर्बुद्धिर्भरत स्स्वयमागतः ।
स एष हि महाकायः कोविदारध्वजो रथे ॥ 3 ॥

बंधयिष्यति वा दाशानथवाऽस्मान्वधिष्यति ।
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ 4 ॥

संपन्नां श्रियमन्विच्छन्स्तस्य राज्ञ स्सुदुर्लभाम् ।
भरतः कैकयीपुत्रो हंतुं समधिगच्छति ॥ 5 ॥

भर्ताचैव सखाचैव रामो दाशरथिर्मम ।
तस्यार्थकामास्सन्नद्धा गंगाऽनूपे प्रतिष्ठत ॥ 6 ॥

तिष्ठंतु सर्वे दाशाश्च गंगामन्वाश्रिता नदीम् ।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ 7 ॥

नावां शतानां पंचानां कैवर्तानां शतं शतम् ।
सन्नद्धानां तथा यूनां तिष्ठंत्वित्यभ्यचोदयत् ॥ 8 ॥

यदाऽऽदुष्टस्तु भरतो रामस्येह भविष्यति ।
सेयं स्वस्तिमती सेना गंगामद्य तरिष्यति ॥ 9 ॥

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ 10 ॥

तमायांतं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत् ॥ 11 ॥

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।
कुशलो दंडकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ 12 ॥

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ 13 ॥

एतत्तु वचनं श्रुत्वा सुमंत्राद्भरत श्शुभम् ।
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ 14 ॥

लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ 15 ॥

निष्कुटश्चैव देशोऽयं वंचिताश्चापि ते वयम् ।
निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ 16 ॥

अस्ति मूलं फलंचैव निषादैस्समुपाहृतम् ।
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ 17 ॥

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
अर्चितो विविधैः कामै श्श्व स्ससैन्यो गमिष्यसि ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुरशीतितमस्सर्गः ॥




Browse Related Categories: