श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।
देवदेवे गते तस्मिन् सोऽंगुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम संवत्सरमुपासत ॥ 1 ॥
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ 2 ॥
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ 3 ॥
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सातिमहद्रूपं कृत्वा वेगं च दुस्सहम् ॥ 4 ॥
आकाशादपतद्राम शिवे शिवशिरस्युत ।
अचिंतयच्च सा देवी गंगा परमदुर्धरा ॥ 5 ॥
विशाम्यहं हि पातालं स्रोतसा गृह्य शंकरम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥ 6 ॥
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥ 7 ॥
हिमवत्प्रतिमे राम जटामंडलगह्वरे ।
सा कथंचिन्महीं गंतुं नाशक्नोद्यत्नमास्थिता ॥ 8 ॥
नैव निर्गमनं लेभे जटामंडलमोहिता ।
तत्रैवाबंभ्रमद्देवी संवत्सरगणान् बहून् ॥ 9 ॥
तामपश्यन्पुनस्तत्र तपः परममास्थितः ।
अनेन तोषितश्चाभूदत्यर्थं रघुनंदन ॥ 10 ॥
विससर्ज ततो गंगां हरो बिंदुसरः प्रति ।
तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे ॥ 11 ॥
ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ।
तिस्रः प्राचीं दिशं जग्मुः गंगाश्शिवजलाश्शुभाः ॥ 12 ॥
सुचक्षुश्चैव सीता च सिंधुश्चैव महानदी ।
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥ 13 ॥
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ।
भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥ 14 ॥
प्रायादग्रे महातेजा गंगा तं चाप्यनुव्रजत् ।
गगनाच्छंकरशिरस्ततो धरणिमाश्रिता ॥ 15 ॥
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।
मत्स्यकच्छपसंघैश्च शिंशुमारगणैस्तदा ॥ 16 ॥
पतद्भिः पतितैश्चान्यैर्व्यरोचत वसुंधरा ।
ततो देवर्षिगंधर्वा यक्षसिद्धगणास्तदा ॥ 17 ॥
व्यलोकयंत ते तत्र गगनाद्गां गतां तथा ।
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥ 18 ॥
पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिताः ।
तदद्भुततमं लोके गंगापतनमुत्तमम् ॥ 19 ॥
दिदृक्षवो देवगणाः समीयुरमितौजसः ।
संपतद्भिस्सुरगणैस्तेषां चाभरणौजसा ॥ 20 ॥
शतादित्यमिवाभाति गगनं गततोयदम् ।
शिंशुमारोरगगणैर्मीनैरपि च चंचलैः ॥ 21 ॥
विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा ।
पांडरैस्सलिलोत्पीडैः कीर्यमाणैस्सहस्रधा ॥ 22 ॥
शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः ।
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् ॥ 23 ॥
विनतं क्वचिदुद्धूतं क्वचिद्याति शनैश्शनैः ।
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥ 24 ॥
मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम् ।
तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥ 25 ॥
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ।
तत्र देवर्षिगंधर्वा वसुधातलवासिनः ॥ 26 ॥
भवांगपतितं तोयं पवित्रमिति पस्पृशुः ।
शापात्प्रपतिता ये च गगनाद्वसुधातलम् ॥ 27 ॥
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ।
धूतपापाः पुनस्तेन तोयेनाथ सुभास्वता ॥ 28 ॥
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे ।
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥ 29 ॥
कृताभिषेको गंगायां बभूव विगतक्लमः ।
भगीरथोऽपि राजार्षिर्दिव्यं स्यंदनमास्थितः ।
प्रायादग्रे महातेजास्तं गंगा पृष्ठतोऽन्वगात् ॥ 30 ॥
देवास्सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥ 31 ॥
गंधर्वयक्षप्रवरास्सकिन्नरमहोरगाः ।
सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् ॥ 32 ॥
गंगामन्वगमन् प्रीतास्सर्वे जलचराश्च ये ।
यतो भगीरथो राजा ततो गंगायशस्विनी ॥ 33 ॥
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥ 34 ॥
गंगा संप्लावयामास यज्ञवाटं महात्मनः ।
तस्यावलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव ॥ 35 ॥
अपिबच्च जलं सर्वं गंगायाः परमाद्भुतम् ।
ततो देवास्सगंधर्वा ऋषयश्च सुविस्मिताः ॥ 36 ॥
पूजयंति महात्मानं जह्नुं पुरुषसत्तमम् ।
गंगां चापि नयंति स्म दुहितृत्वे महात्मनः ॥ 37 ॥
ततस्तुष्टो महातेजाश्श्रोत्राभ्यामसृजत् पुनः ॥ 38 ॥
तस्माज्जह्नुसुता गंगा प्रोच्यते जाह्नवीतिच ।
जगाम च पुनर्गंगा भगीरथरथानुगा ।
सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा ॥ 39 ॥
रसातलमुपागच्छत्सिद्ध्यर्थं तस्य कर्मणः ।
भगीरथोऽपि राजर्षिः गंगामादाय यत्नतः ।
पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ 40 ॥
अथ तद्भस्मनां राशिं गंगासलिलमुत्तमम् ।
प्लावयद्धूतपाप्मानस्स्वर्गं प्राप्ता रघूत्तम ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रिचत्वारिंशस्सर्गः ॥