View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.85 अयोध्याकांड - पंचाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचाशीतितमस्सर्गः ।

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् ।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ 1 ॥

ऊर्जितः खलु ते कामः कृतो मम गुरोस्सखे ।
यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥ 2 ॥

इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम् ।
अब्रवीद्भरत श्श्रीमाननिषादाधिपतिं पुनः ॥ 3 ॥

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
गहनोऽयं भृशं देशो गंगाऽनूपो दुरत्ययः ॥ 4 ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
अब्रवीत्प्रांजलिर्वाक्यं गुहो गहनगोचरः ॥ 5 ॥

दाशास्त्वाऽनुऽगमिष्यंति धन्विनस्सुसमाहिताः ।
अहं त्वानुगमिष्यामि राजपुत्र महायशः ॥ 6 ॥

कच्छिन्नदुष्टो व्रजसि रामस्याक्लिष्टकर्मणः ।
इयं ते महती सेना शंकां जनयतीव मे ॥ 7 ॥

तमेवमभिभाषंतमाकाश इव निर्मलः ।
भरतश्श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ 8 ॥

माभूत्स कालो यत्कष्टं न मां शंकितुमर्हसि ।
राघव स्सहि मे भ्राता ज्येष्ठः पितुसमो मतः ॥ 9 ॥

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ।
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ 10 ॥

स तु संहृष्टवदन श्श्रुत्वा भरतभाषितम् ।
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ 11 ॥

धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ 12 ॥

शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति ।
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ 13 ॥

एवं संभाषमाणस्य गुहस्य भरतं तदा ।
बभौ नष्टप्रभस्सूर्यो रजनी चाभ्यवर्तत ॥ 14 ॥

सन्निवेश्य स तां सेनां गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमांछयनं समुपागमत् ॥ 15 ॥

रामचिंतामय श्शोको भरतस्य महात्मनः ।
उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ 16 ॥

अंतर्दाहेन दहनस्संतापयति राघवम् ।
वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम् ॥ 17 ॥

प्रसृतस्सर्वगात्रेभ्यस्स्वेदं शोकाग्निसंभवम् ।
यथा सूर्यांशुसंतप्तो हिमवान् प्रसृतोहिमम् ॥ 18 ॥

ध्याननिर्धरशैलेन विनिश्श्वसितधातुना ।
दैन्यपादपसंघेन शोकायासाधिशृंगिणा ॥ 19 ॥

प्रमोहानंतसत्त्वेन संतापौषधिवेणुना ।
आक्रांतो दुःखशैलेन महता कैकयीसुतः ॥ 20 ॥

विनिश्श्वसन्वै भृशदुर्मनास्ततः प्रमूढसंज्ञः परमापदं गतः ।
शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः ॥ 21 ॥

गुहेन सार्धं भरतस्समागतो महानुभावस्सजनस्समाहितः ।
सुदुर्मनास्तं भरतं तदा पुनर्गुह स्समाश्वासयदग्रजं प्रति ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचाशीतितमस्सर्गः ॥




Browse Related Categories: