श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचपंचाशस्सर्गः ।
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥ 1 ॥
तस्याहुंभारवाज्जाताः कांभोजा रविसन्निभाः ।
ऊधसस्त्वथ संजाताः पप्लवाश्शस्त्रपाणयः ॥ 2 ॥
योनिदेशाच्च यवनाश्शकृद्देशाच्छका स्तथा ।
रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥ 3 ॥
तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनंदन ॥ 4 ॥
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां च शतं नानाविधायुधम् ॥ 5 ॥
अभ्यधावत्सुसंकृद्धं वसिष्ठं जपतां वरम् ।
हुंकारेणैव तान् सर्वान् ददाह भगवान् ऋषिः ॥ 6 ॥
ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुता स्तदा ॥ 7 ॥
दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः ।
सव्रीडश्चिंतयाऽविष्टो विश्वामित्रोऽभवत्तदा ॥ 8 ॥
समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः ।
उपरक्त इवादित्यस्सद्यो निष्प्रभतां गतः ॥ 9 ॥
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ 10 ॥
स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत ॥ 11 ॥
स गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् ।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ 12 ॥
केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ 13 ॥
किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् ।
वरदोऽस्मि वरो यस्ते कांक्षितस्सोऽभिधीयताम् ॥ 14 ॥
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ 15 ॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
सांगोपांगोपनिषदस्सरहस्यः प्रदीयताम् ॥ 16 ॥
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गंधर्वयक्षरक्षस्सु प्रतिभांतु ममानघ ॥ 17 ॥
तव प्रसादाद्भवतु देवदेवममेप्सितम् ।
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ 18 ॥
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा ॥ 19 ॥
विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ 20 ॥
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ 21 ॥
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः ।
दृष्ट्वा विप्रद्रुतास्सर्वे मुनयश्शतशो दिशः ॥ 22 ॥
वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
विद्रवंति भयाद्भीता नानादिग्भ्यस्सहस्रशः ॥ 23 ॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम् ॥ 24 ॥
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ 25 ॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ 26 ॥
आश्रमं चिरसम्वृद्धं यद्विनाशितवानसि ।
दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ 27 ॥
इत्युक्त्वा परमक्रुद्धो दंडमुद्यम्य सत्वरः ।
विधूममिव कालाग्निं यमदंडमिवापरम् ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचपंचाशस्सर्गः ॥