View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.120 युद्धकांड - विंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ विंशत्यधिकशततमस्सर्गः ।

ततोहिदुर्मनाराम्श्रुत्वैवंवदतांगिरः ।
दध्यौमुहूर्तंधर्मात्माबाष्पव्याकुललोचनः ॥ 1 ॥

ततोवैश्रवणोराजायमश्चपितृभिःसह ।
सहस्राक्षश्चदेवेशोवरुणश्चजलेश्वरः ॥ 2 ॥

षडर्धनयन्श्रीमान्महादेवोवृषध्वजः ।
कर्तासर्वस्यलोकस्यब्रह्माब्रह्मविदांवरः ॥ 3 ॥

एतेसर्वेसमागम्यविमानैस्सूर्यसन्निभैः ।
आगम्यनगरींलंकामभिजग्मुश्चराघवम् ॥ 4 ॥

ततःसहस्ताभरणान्प्रगृह्यविपुलान्भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठाराघवंप्रांजलिंस्थितम् ॥ 5 ॥

कर्तासर्वस्यलोकस्यश्रेष्ठोज्ञानवतांप्रभुः ।
उपेक्षसेकथंसीतांपतंतींहव्यवाहने ॥ 6 ॥

कथंदेवगणश्रेष्ठमात्मानंनावबुद्ध्यसे ।
ऋतधामावसुःपूर्वंवसूनां च प्रजापतिः ॥ 7 ॥

त्रयाणामपिलोकानामादिकर्तास्वयंप्रभुः ।
रुद्राणामष्टमोरुद्रस्साध्यानामपिपंचमः ॥ 8 ॥

अश्विनौचापिकर्णौतेसूर्यचंद्रामसौदृशौ ।
अंतेचादौ च लोकानांदृश्यसे च परंतप ॥ 9 ॥

उपेक्षसे च वैदेहींमानुषःप्राकृतोयथा ।
इत्युक्तोलोकपालैस्तैस्स्वामीलोकस्यराघवः ॥ 10 ॥

अब्रवीत्त्रिदशश्रेष्ठान्रामधर्मभृतांवरः ।
आत्मानंमानुषंमन्येरामंदशरथात्मजम् ॥ 11 ॥

सोऽहंयस्ययतश्चाहंभगववंस्तद्भ्रवीतुमे ।
इतिब्रुवाणंकाकुत्स्थंब्रह्माब्रह्मविदांवरः ॥ 12 ॥

अब्रवीच्छ्रुणुमेवाक्यंसत्यंसत्यपराक्रम ।
भवान्नारायणोदेवःश्रीमांश्चक्रायुधःप्रभुः ॥ 13 ॥

एकशृंगोवराहस्त्वंभूतभव्यसपत्नजित् ।
अक्षरंब्रह्मसत्यं च मध्येचांते च राघव ॥ 14 ॥

लोकानांत्वंपरोधर्मोविष्वक्सेनश्चतुर्भुजः ।
शार्ङ्गधन्वाहृषीकेशःपुरुषःपुरुषोत्तमः ॥ 15 ॥

अजितःखंगदृग्विष्णुःकृष्णश्चैवमहाबलः ।
सेनानीर्ग्रामणीश्चत्वंत्वंबुद्धिस्त्वंक्षमादमः ॥ 16 ॥

प्रभवश्चाप्ययश्चत्वमुपेंद्रोमधुसूदनः ।
इंद्रकर्मामहेंद्रस्त्वंपद्मनाभोरणांतकृत् ॥ 17 ॥

शरण्यंशरणं च त्वामाहुर्दिव्यामहर्षयः ।
सहस्रशृंगोवेदात्माशरशीर्षोमहर्षभः ॥ 18 ॥

त्वंत्रयाणांहिलोकानामादिकर्तास्वयंप्रभुः ।
सिद्धानामपिसाध्यानामाश्रयश्चासिपूर्वजः ॥ 19 ॥

त्वम्यज्ञस्त्वंवषटकारस्त्वमोंकारःपरात्परः ॥ 20 ॥

प्रभवंनिधनंवातेनोविदुःकोभवानिति ।
दृश्यसेसर्वभूतेषुगोषु च ब्राह्मणेषु च ॥ 21 ॥

दिक्षुसर्वासुगगनेपर्वतेषुनदीषु च ।
सहस्रचरण्श्रीमान् शतशीर्षस्सहस्रदृक् ॥ 22 ॥

त्वंधारयसिभूतानिपृथिवीं च सपर्वताम् ।
अंतेपृथिव्याःसलिलेदृश्यसेत्वंमहोरगः ॥ 23 ॥

त्रीन्लोकांधारयन् राम देवगंधर्वदानवान् ।
अहंतेहृदयंरामजिह्वादेवीसरस्वती ॥ 24 ॥

देवारोमाणिगात्रेषुब्रह्मणानिर्मिताःप्रभो ।
निमेषस्तेस्मृतारात्रिरुन्मेषोदिवसस्तथा ॥ 25 ॥

संस्कारास्त्वभवन्वेदानैतदस्तित्वयाविना ।
जगत्सर्वंशरीरंतेस्थैर्यंतेवसुथातलम् ॥ 26 ॥

अग्निःकोपःप्रसादस्तेसोम्श्रीवत्सलक्षणः ।
त्वयालोकास्त्रयःक्रांताःपुरास्वैर्विक्रमैस्त्रिभिः ॥ 27 ॥

महेंध्रश्चकृतोराजाबलिंबद्ध्वासुदारुणम् ।
सीतालक्ष्मीर्भवान् विष्णुर्देवःकृष्णःप्रजापतिः ॥ 28 ॥

वधार्थंरावणस्येहप्रविष्टोमानुषींतनुम् ।
तदिदंनस्त्वयाकार्यंकृतंधर्मभृतांवर ॥ 29 ॥

निहतोरावणोरामप्रहृष्टोदिवमाक्रम ।
अमोघंदेववीर्यंते न तेमोघाःपराक्रमाः ॥ 30 ॥

अमोघंदर्शनंरामामोघस्तवसंस्तवः ।
अमोघास्तेभविष्यंतिभक्तिमंतोनराभुवि ॥ 31 ॥

येत्वांदेवंध्रुवंभक्ताःपुराणंपुरुषोत्तमम् ।
प्राप्नुवंतिसदाकामनिहलोकेपरत्र च ॥ 32 ॥

इममार्षंस्तवंदिव्यमितिहासंपुरातनम् ॥ 33 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे विंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: