View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.27 सुंदरकांड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तविंशस्सर्गः ।

इत्युक्तास्सीतया घोरं राक्षस्यः क्रोधमूर्छिताः ।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ 1 ॥

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ 2 ॥

अद्येदानीं तवानार्ये सीते पापविनिश्चये ।
राक्षस्यो भक्षयिष्यंति मांसमेतद्यथासुखम् ॥ 3 ॥

सीतां ताभिरनार्याभिर्दृष्टवा संतर्जितां तदा ।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ 4 ॥

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ 5 ॥

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
राक्षसानामभावाय भर्तुरस्या भवाय च ॥ 6 ॥

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ।
सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥ 7 ॥

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ।
तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्युतम् ॥ 8 ॥

उवच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।
गजदंतमयीं दिव्यां शिबिकामंतरिक्षगाम् ॥ 9 ॥

युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।
शुक्लमाल्यांबरधरो लक्ष्मणेन सहागतः ॥ 10 ॥

स्वप्ने चाद्य मया दृष्टा सीता शुक्लांबरावृता ।
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ॥ 11 ॥

रामेण संगता सीता भास्करेण प्रभा यथा ।
राघवश्च मया दृष्टश्चतुर्दष्ट्रं महागजम् ॥ 12 ॥

आरूढ श्शैलसंकाशं चचार सहलक्ष्मणः ।
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥ 13 ॥

शुक्लमाल्यांबरधरौ जानकीं पर्युपस्थितौ ।
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दंतिनः ॥ 14 ॥

भर्त्रा परिगृहीतस्य जानकी स्कंधमाश्रिता ।
भर्तुरंकात्समुत्पत्य ततः कमललोचना ॥ 15 ॥

चंद्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ।
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ 16 ॥

सीतया च विशालाक्ष्या लंकाया उपरिस्थितः ।
पांडुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ॥ 17 ॥

इहोपयातः काकुत्स्थ स्सीतया सह भार्यया ।
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥ 18 ॥

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ 19 ॥

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः ॥ 20 ॥

न हि रामो महातेजाश्शक्यो जेतुं सुरासुरैः ।
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ 21 ॥

रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः ॥ 22 ॥

विमानात्पुष्पकादद्य रावणः पतितो भुवि ।
कृष्यमाणः स्त्रिया दृष्टो मुंडः कृष्णांबरः पुनः ॥ 23 ॥

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
पिपंस्तैलं हसन्नृत्यन् भ्रांतचित्ताकुलेंद्रियः ॥ 24 ॥

गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ॥ 25 ॥

पतितोऽ वाक्चिरा रा भूमौ गर्दभाद्भयमोहितः ।
सहसोत्थाय संभ्रांतो भयार्तो मदविह्वलः ॥ 26 ॥

उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु ।
दुर्गंधं दुस्सहं घोरं तिमिरं नरकोपमम् ॥ 27 ॥

मलपंकं प्रविश्याशु मग्नस्तत्र स रावणः ।
कंठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥ 28 ॥

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति ।
एवं तत्र मया दृष्टः कुंभकर्णो निशाचरः ॥ 29 ॥

रावणस्य सुतास्सर्वे दृष्टास्तैलसमुक्षिताः ।
वराहेण दशग्रीवश्शिंशुमारेण चेंद्रजित् ॥ 30 ॥

उष्ट्रेण कुंभकर्णश्च प्रयाता दक्षिणां दिशम् ।
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ 31 ॥

शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः ।
शंखदुंधुभिनिर्घोषैर्नृत्तगीतैरलंकृतः ॥ 32 ॥

आरुह्य शैलसंकाशं मेघस्तनितनिस्स्वनम् ।
चतुर्दंतं गजं दिव्यमास्ते तत्र विभीषणः ॥ 33 ॥

चतुर्भिस्सचिवैः सार्थं वैहायसमुपस्थितः ।
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ॥ 34 ॥

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।
लंका चेयं पुरी रम्या सवाजिरथकुंजराः ॥ 35 ॥

सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।
लंका दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ॥ 36 ॥

दग्धा रामस्य दूतेन वानरेण तरस्विना ।
पीत्वा तैलं प्रनृत्ताश्च प्रहसंत्यो महास्वनाः ॥ 37 ॥

लंकायां भस्मरूक्षायां सर्वा राक्षसस्त्रियः ।
कुंभकर्णादयश्चेमे सर्वे राक्षसपुंगवाः ॥ 38 ॥

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।
अपगच्छत नश्यध्वं सीतामाप्नोति राघवः ॥ 39 ॥

घातयेत्परमामर्षी युष्मान्सार्थं हि राक्षसैः ।
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ॥ 40 ॥

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।
तदलं क्रूरवाक्यैश्च सांत्वमेवाभिधीयताम् ॥ 41 ॥

अभियाचाम वैदेहीमेतद्धि मम रोचते ।
यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥ 42 ॥

सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ॥ 43 ॥

राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ 44 ॥

अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।
अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये ॥ 45 ॥

विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम् ।
छायावैगुण्यमात्रं तु शंके दुःखमुपस्थितम् ॥ 46 ॥

अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ॥ 47 ॥

राक्षसेंद्रविनाशं च विजयं राघवस्य च ।
निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् ॥ 48 ॥

दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।
ईषच्छ हृषितो वास्या दक्षिणाया ह्यदक्षिणः ॥ 49 ॥

अकस्मादेव वैदेह्या बाहुरेकः प्रकंपते ।
करेणुहस्तप्रतिम स्सव्यश्चोरुरनुत्तमः ॥ 50 ॥

वेपमानः सूचयति राघवं पुरतः स्थितम् ।
पक्षी च शाखानिलयं प्रविष्टः पुनः पुनश्चोत्तमसांत्ववादी ।
सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तविंशस्सर्गः ॥




Browse Related Categories: