View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.75 अयोध्याकांड - पंचसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचसप्ततितमस्सर्गः ।

दीर्घकालात्समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्वीक्ष्य मातरम् ॥ 1 ॥

सोऽमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ।
राज्यं न कामये जातु मंत्रये नापि मातरम् ॥ 2 ॥

अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः ।
विप्रकृष्टेह्यहं देशे शत्रुघ्नसहितोऽवसम् ॥ 3 ॥

वनवासं न जानामि रामस्याहं महात्मनः ।
विवासनं वा सौमित्रे स्सीतायाश्च यथाऽभवत् ॥ 4 ॥

तथैव क्रोशतस्तस्य भरतस्य महात्मनः ।
कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥ 5 ॥

आगतः क्रूरकार्यायाः कैकेय्या भरतस्सुतः ।
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥ 6 ॥

एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा ।
प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥ 7 ॥

स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा ।
प्रतस्थे भरतो यत्र कौसल्याया निवेशनम् ॥ 8 ॥

तत श्शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ।
पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतसाम् ॥ 9 ॥

रुदंतौ रुदतीं दुःखात्समेत्यार्यां मनस्स्विनीम् ।
भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥ 10 ॥

इदं ते राज्यकामस्य राज्यं प्राप्तमकंटकम् ।
संप्राप्तं बत कैकेय्या शशीघ्रं क्रूरेण कर्मणा ॥ 11 ॥

प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥ 12 ॥

क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।
हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः ॥ 13 ॥

अथवा स्वयमेवाहं सुमित्रानुचरा सुखम् ।
अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः ॥ 14 ॥

कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।
यत्रासौ पुरुषव्याघ्रः पुत्रो मे तप्यते तपः ॥ 15 ॥

इदं हि तव विस्तीर्णं धनधान्यसमाचितम् ।
हस्त्वश्वरथसंपूर्णं राज्यं निर्यातितं तया ॥ 16 ॥

इत्यादिबहुभिर्वाक्यैः क्रूरैः संभर्त्सितोऽनघः ।
विव्यथे भरतस्तीव्रं व्रणे तुद्येव सूचिना ॥ 17 ॥

पपात चरणौ तस्यास्तदा संभ्रांतचेतनः ।
विलप्य बहुधाऽसंज्ञो लब्धसंज्ञस्ततः स्थितः ॥ 18 ॥

एवं विलपमानां तां भरतः प्रांजलिस्तदा ।
कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम् ॥ 19 ॥

आर्ये कस्मादजानंतं गर्हसे मामकिल्बिषम् ।
विपुलां च मम प्रीतिं स्थिरां जानासि राघवे ॥ 20 ॥

कृता शास्त्रानुगा बुद्धिर्माभूत्तस्य कदाचन ।
सत्यसंध स्सतां श्रेष्ठो यस्याऽर्योऽनुमते गतः ॥ 21 ॥

प्रेष्यं पापीयसां यातु सूर्यंच प्रतिमेहतु ।
हंतु पादेन गां सुप्तां यस्याऽर्योऽनुमते गतः ॥ 22 ॥

कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम् ।
अधर्मो योऽस्य सोऽस्यास्तु यस्याऽर्योऽनुमतेगतः ॥ 23 ॥

परिपालयमानस्य राज्ञो भूतानि पुयत्रवत् ।
ततस्नु दुह्यतां पापं यस्याऽर्योऽनुमते गतः ॥ 24 ॥

बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ।
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः ॥ 25 ॥

संश्रुत्य च तपस्विभ्यस्सत्रे वै यज्ञदक्षिणाम् ।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥ 26 ॥

हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले ।
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः ॥ 27 ॥

उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ।
स नाशयतु दुष्टात्मा यस्याऽर्योऽनुमते गतः ॥ 28 ॥

मा च तं व्यूढबाह्वंसं चंद्रार्कसमतेजसम् ।
द्राक्षीद्राज्यस्थमासीनं यस्यार्योऽनुमतेगतः ॥ 29 ॥

पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः ।
गुरूंश्चाप्यवजानातु यस्याऽर्योऽनुमते गतः ॥ 30 ॥

गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम् ।
मित्रे द्रुह्येत सोऽत्यंतं यस्याऽर्योऽनुमते गतः ॥ 31 ॥

विश्वासात्कथितं किंचित्परिवादं मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्याऽर्योऽमते गतः ॥ 32 ॥

अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः ।
लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः ॥ 33 ॥

पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः ।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः ॥ 34 ॥

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियां धर्म्यां यस्याऽर्योऽनुमते गतः ॥ 35 ॥

माऽत्मनस्संततिं द्राक्षीत्स्वेषु दारेषु दुःखितः ।
आयुस्समग्रमप्राप्य यऽस्यार्योऽनुमते गतः ॥ 36 ॥

राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते ।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ 37 ॥

लाक्षया मधुमांसेन लोहेन च विषेण च ।
सदैव बिभृयाद्भृत्यान्यस्यार्योऽनुमते गतः ॥ 38 ॥

संग्रमे समुपोढे स्म शत्रुपक्षभयंकरे ।
पलायामानो वध्येत यस्यार्योऽनुमते गतः ॥ 39 ॥

कपालपाणिः पृथिवीमटतां चीरसंवृतः ।
भिक्षमाणो यथोन्मत्तो यस्यार्योऽनुमते गतः ॥ 40 ॥

मद्ये प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
कामक्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥ 41 ॥

मास्म धर्मे मनो भूयादधर्मं स निषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ 42 ॥

संचितान्यस्य वित्तनि विविधानि सहस्रशः ।
दस्युभिर्विप्रलुप्यंतां यस्यार्योऽनुमते गतः ॥ 43 ॥

उभे संध्ये शयानस्य यत्पापं परिकल्प्यते ।
तच्चपापं भवेत्तस्य यस्यार्योऽनुमते गतः ॥ 44 ॥

यदग्निदायके पापं यत्पापं गुरतल्पगे ।
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम् ॥ 45 ॥

देवतानां पित्रूणां च मातापित्रोस्तथैव च ।
मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः ॥ 46 ॥

सतां लोकात्सतां कीर्त्या स्संजुष्टात्कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः ॥ 47 ॥

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षाः यस्यार्योऽनुमते गतः ॥ 48 ॥

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।
स भूयात्सतत क्लेशी यस्यार्योऽनुमते गतः ॥ 49 ॥

आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः ॥ 50 ॥

मायया रमतां नित्यं परुषः पिशुनोऽशुचिः ।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥ 51 ॥

ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ 52 ॥

सधर्मदारान्परित्यज्य परदारान्निषेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ 53 ॥

विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत् ।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ 54 ॥

पानीयदूषके पापं तथैव विषदायके ।
यत्तदेकस्स लभतां यस्यार्योऽनुमते गतः ॥ 55 ॥

ब्राह्मणायोद्यतां पूजां विहंतु कलुषेंद्रियः ।
बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गतः ॥ 56 ॥

तुर्ष्णार्तं सति पानीये विप्रलंभेन योजयेत् ।
लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः ॥ 57 ॥

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥ 58 ॥

विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः ।
एवमाश्वासयन्नेव दुःखार्तो निपपात ह ॥ 59 ॥

तथा तु शपथैः कष्टै श्शपमानमचेतनम् ।
भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत् ॥ 60 ॥

मम दुःखमिदं पुत्र भूयस्समुपजायते ।
शपथै श्शपमानो हि प्राणानुपरुणत्सि मे ॥ 61 ॥

दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः ।
वत्स सत्यप्रतिज्ञो ते सतां लोकमवाप्स्यसि ॥ 62 ॥

इत्युक्त्वा चांकमानीय भरतं भ्रातृवत्सलम् ।
परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ॥ 63 ॥

एवं विलपमानस्य दुःखार्तस्य महात्मनः ।
मोहाच्च शोकसम्रोधाद्बभूव लुलितं मनः ॥ 64 ॥

लालप्यमानस्य विचेतनस्य प्रणष्टबुद्धेः पतितस्य भूमौ ।
मुहुर्मुहुर्निश्श्वसतश्च घर्मं सा तस्य शोकेन जगाम रात्रिः ॥ 65 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचसप्ततितमस्सर्गः ॥




Browse Related Categories: