View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.22 अरण्यकांड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्वाविंशस्सर्गः ।

एवमाधर्षितश्शूरश्शूर्पणख्या खरस्ततः ।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ 1 ॥

तवावमानप्रभवः क्रोधोऽयमतुलो मम ।
न शक्यते धारयितुं लवणांभ इवोल्बणम् ॥ 2 ॥

न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् ।
आत्मदुश्चरितैः प्राणान्हतोयोऽद्य विमोक्ष्यते ॥ 3 ॥

बाष्पस्संह्रियतामेष संभ्रमश्च विमुच्यताम् ।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ 4 ॥

परश्वथहतस्याद्य मंदप्राणस्य संयुगे ।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ 5 ॥

सा प्रहृष्टा वचश्श्रुत्वा खरस्य वदनाच्च्युतम् ।
प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम् ॥ 6 ॥

तया परुषितः पूर्वं पुनरेव प्रशंसितः ।
अब्रवीद्दूषणं नाम खरस्सेनापतिं तदा ॥ 7 ॥

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ 8 ॥

नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ।
लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ 9 ॥

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।
सर्वोद्योग मुदीर्णानां रक्षसां सौम्य कारय ॥ 10 ॥

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ।
शरांश्चित्रांश्च खंगांश्च शक्तीश्च विविधाश्शिताः ॥ 11 ॥

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।
वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ 12 ॥

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।
सदश्वैश्शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ 13 ॥

तं मेरुशिखराकारं तप्तकांचनभूषणम् ।
हेमचक्रमसंबाधं वैदूर्यमयकूबरम् ॥ 14 ॥

मत्स्यैः पुष्पैर्द्रुमैश्शैलैश्चंद्रसूर्यैश्च कांचनैः ।
मंगलैः पक्षिसंघैश्च ताराभिरभिसंवृतम् ॥ 15 ॥

ध्वजनिस्त्रिंशसंपन्नं किंकिणीकविराजितम् ।
सदश्वयुक्तं सोऽमर्षादारुरोह खरो रथम् ॥ 16 ॥

निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः ।
तस्थुस्संपरिवार्यैनं दूषणं च महाबलम् ॥ 17 ॥

खरस्तु तान्महेष्वासान्घोरवर्मायुधध्वजान् ।
निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थस्सर्वराक्षसान् ॥ 18 ॥

ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् ।
निर्जगाम जनस्थानान्महानादं महाजवम् ॥ 19 ॥

मुद्गरैः पट्टिसैश्शूलैस्सुतीक्ष्णैश्च परश्वधैः ।
खंगैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ 20 ॥

शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः ।
गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ॥ 21 ॥

राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।
निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ॥ 22 ॥

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् ।
खरस्यापि रथः किंचिज्जगाम तदनंतरम् ॥ 23 ॥

ततस्तांछबलानश्वास्तप्तकांचनभूषितान् ।
खरस्य मतिमाज्ञाय सारथिस्समचोदयत् ॥ 24 ॥

स चोदितो रथश्शीघ्रं खरस्य रिपुघातिनः ।
शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ 25 ॥

प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथांतकः ।
अचूचुदत्सारथिमुन्नदन्घनं महाबलो मेघ इवाश्मवर्षवान् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्वाविंशस्सर्गः ॥




Browse Related Categories: