View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.14 किष्किंधाकांड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुर्दशस्सर्गः ।

सर्वे ते त्वरितं गत्वा किष्किंधां वालि पालिताम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ 1 ॥

विचार्य सर्वतो दृष्टिं कानने काननप्रियः ।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम् ॥ 2 ॥

ततस्स निनदं घोरं कृत्वा युद्धाय चाह्वयत् ।
परिवारैः परिवृतो नादैर्भिंदन्निवांबरम् ॥ 3 ॥

गर्जन्निव महामेघो वायुवेगपुरस्सरः ।
अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा ॥ 4 ॥

दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ।
हरिवागुरया व्याप्तां तप्तकांचनतोरणाम् ।
प्राप्ताः स्म ध्वजयंत्राढ्यां किष्किंधां वालिनः पुरीम् ॥ 5 ॥

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा ।
सफलां कुरु तां क्षिप्रं लतां काल इवागतः ॥ 6 ॥

एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ।
तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः ॥ 7 ॥

कृताभिज्ञानचिह्नस्त्व मनया गजसाह्वया ।
लक्ष्मणेन समुत्पाट्य यैषा कंठे कृता तव ॥ 8 ॥

शोभसेऽह्यधिकं वीर लतया कंठसक्तया ।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ 9 ॥

अद्य वालिसमुत्थं ते भयं वैरं च वानर ।
एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥ 10 ॥

मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ।
वाली विनिहतो यावद्वने पांसुषु वेष्टते ॥ 11 ॥

यदि दृष्टिपथं प्राप्तो जीवन्स विनिवर्तते ।
ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान् ॥ 12 ॥

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः ।
तेनावेहि बलेनाद्य वालिनं निहतं मया ॥ 13 ॥

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्टता ।
धर्मलोभपरीतेन न च वक्ष्ये कथंचन ॥ 14 ॥

सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ।
प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ॥ 15 ॥

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः ।
सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः ॥ 16 ॥

जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा ।
निष्पतिष्यत्यसंगेन वाली स प्रियसंयुगः ॥ 17 ॥

रिपूणां धर्षिण शूरा मर्षयंति न संयुगे ।
जानंतस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः ॥ 18 ॥

स तु रामवचश्श्रुत्वा सुग्रीवो हेमपिंगलः ।
ननर्द क्रूरनादेन विनिर्भिंदन्निवांबरम् ॥ 19 ॥

तस्य शब्देन वित्रस्ता गावो यांति हतप्रभाः ।
राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः ॥ 20 ॥

द्रवंति च मृगाश्शीघ्रं भग्ना इव रणे हयाः ।
पतंति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥ 21 ॥

ततस्सजीमूतगणप्रणादो नादं ह्यमुंचत्त्वरया प्रतीतः ।
सूर्यात्मजश्शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचंचलोर्मिः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुर्दशस्सर्गः ॥




Browse Related Categories: