View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.110 अयोध्याकांड - दशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ दशाधिकशततमस्सर्गः ।

क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ 1 ॥

निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ 2 ॥

सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयंभूर्दैवतैः सह ॥ 3 ॥

स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम् ।
असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः ॥ 4 ॥

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ॥ 5 ॥

विवस्वान्काश्यपात् जज्ञे मनुर्वैवस्वतः स्वयम् ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ 6 ॥

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ 7 ॥

इक्ष्वाकोस्तु सुत श्रीमान्कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ 8 ॥

विकुक्षेस्तु महातेजा बाणः पुत्र प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महातपाः ॥ 9 ॥

नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ 10 ॥

अनरण्यान्महाबाहुः पृथु राजा बभूव ह ।
तस्मात्पृथोमेहाराजस्त्रिशंकुरुदपद्यत ॥ 11 ॥

स सत्यवचनाद् वीरः सशरीरो दिवं गतः ।
त्रिशंकोरभवत्सूनुर्दुंधुमारो महायशाः ॥ 12 ॥

दुंधुमारान्महातेजा युवनाश्वो व्यजायत ।
युवनाश्वसुत श्श्रीमान्मांधाता समपद्यत ॥ 13 ॥

मांधातुस्त महातेजाः सुसंधिरुदपद्यत ।
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥ 14 ॥

यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः ।
युवनाश्वसुत श्श्रीमान्मांधाता समपद्यत ॥ 15 ॥

मांधातुस्त महातेजा स्सुसंधिरुदपद्यत ।
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥ 16 ॥

यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः ।
भरतात्तु महाबाहोरसितो नाम जायत ॥ 17 ॥

यस्यैते प्रतिराजान उदपद्यंत शत्रवः ।
हैहयास्तालजंघाश्च शूराश्च शशिबिंदवः ॥ 18 ॥

तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ 19 ॥

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै गरलं ददौ ॥ 20 ॥

भार्गवश्च्यवनो नाम हिमवंतमुपाश्रितः ।
तमृषिं समुपागम्य कालिंदी त्वभ्यवादयत् ॥ 21 ॥

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ॥ 22 ॥

धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ।
कृत्वा प्रदक्षिणं हृष्टा मुनिंतमनुमान्य च ॥ 23 ॥

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ 24 ॥

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जात स्स सगरोऽभवत् ॥ 25 ॥

स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन इमाः प्रजाः ॥ 26 ॥

असमंजस्तु पुत्रोऽभूत्सगरस्येति न श्श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ 27 ॥

अंशुमानिति पुत्रोऽभूदसमंजस्य वीर्यवान् ।
दिलीपोंशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 28 ॥

भगीरथात्ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन च राघवाः ॥ 29 ॥

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपाद स्सौदास इत्येवं प्रथितो भुवि ॥ 30 ॥

कल्माषपादपुत्रोऽभूच्छंखणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ 31 ॥

शंखणस्य च पुत्रोऽभूच्छूर श्रीमान्सुदर्शनः ।
सुदर्शनस्याग्निवर्णः अग्निवर्णस्य शीघ्रगः ॥ 32 ॥

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः ।
प्रशुश्रुवस्य पुत्रोभूदंबरीषो महाद्युतिः ॥ 33 ॥

अंबरीषस्य पुत्रोभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ 34 ॥

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्यैव च धर्मात्मा राजा दशरथस्सुतः ॥ 35 ॥

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ 36 ॥

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नापरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ 37 ॥

स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहंतुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे दशाधिकशततमस्सर्गः ॥




Browse Related Categories: