View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.15 अरण्यकांड - पंचदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ पंचदशस्सर्गः ।

ततः पंचवटीं गत्वा नानाव्यालमृगायुताम् ।
उवाच भ्रातरं रामस्सौमित्रिं दीप्ततेजसम् ॥ 1 ॥

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।
अयं पंचवटीदेशस्सौम्य पुष्पितपादपः ॥ 2 ॥

सर्वतश्चार्यतां दृष्टिः कानने निपुणोह्यसि ।
आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥ 3 ॥

रमते यत्र वैदेही त्वमहं चैव लक्ष्मण ।
तादृशो दृश्यतां देशस्सन्निकृष्टजलाशयः ॥ 4 ॥

वनरामण्यकं यत्र स्थलरामण्यकं तथा ।
सन्निकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् ॥ 5 ॥

एवमुक्तस्तु रामेण लक्ष्मण संयतांजलिः ।
सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ 6 ॥

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।
स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ 7 ॥

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः ।
विमृशन्रोचयामास देशं सर्वगुणान्वितम् ॥ 8 ॥

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।
हस्तौ गृहीत्वा हस्तेन रामस्सौमित्रिमब्रवीत् ॥ 9 ॥

अयं देशस्समश्रीमान् पुष्पितैस्तरुभिर्वृतः ।
इहाऽश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥ 10 ॥

इयमादित्यसंकाशैः पद्मैस्सुरभिगंधिभिः ।
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ 11 ॥

यथातख्यातमगस्त्येन मुनिना भावितात्मना ।
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता ॥ 12 ॥

हंसकारंडवाकीर्णा चक्रवाकोपशोभिता ।
नातिदूरे न चासन्ने मृगयूथपिपीडिताः ॥ 13 ॥

मयूरनादिता रम्याः प्रांशवो बहुकंदराः ।
दृश्यंते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ॥ 14 ॥

सौवर्णैराजतैस्ताम्रैर्देशे देशे च धातुभिः ।
गवाक्षिता इवाभांति गजाः परमभक्तिभिः ॥ 15 ॥

सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः ।
नीवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ 16 ॥

चूतैरशोकैस्तिलकैश्चंपकैः केतकैरपि ।
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ 17 ॥

चंदनैस्पंदनैर्नीपैः पर्णासैर्लिकुचैरपि ।
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ 18 ॥

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ।
इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा ॥ 19 ॥

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
अचिरेणाऽश्रमं भ्रातुश्चकार सुमहाबलः ॥ 20 ॥

पर्णशालां सुविपुलां तत्र संखातमृत्तिकाम् ।
सुस्तंभां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥ 21 ॥

शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ।
कुशकाशशरैः पर्णैस्सुपरिच्छादितां तथा ॥ 22 ॥

समीकृततलां रम्यां चकार लघुविक्रमः ।
निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ 23 ॥

सहसा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा ।
स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥ 24 ॥

ततः पुष्पबलिं कृत्वा शांतिं च स यथाविधि ।
दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ 25 ॥

स तं दृष्ट्वा कृतं सौम्यमाश्रमं सीतया सह ।
राघवः पर्णशालायां हर्षमाहारयत्परम् ॥ 26 ॥

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ 27 ॥

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ।
प्रदेयो यन्निमित्तं ते परिष्वंगो मया कृतः ॥ 28 ॥

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण ।
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ 29 ॥

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः ।
तस्मिन् देशे बहुफले न्यवसत्सुसुखं वशी ॥ 30 ॥

कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।
अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे पंचदशस्सर्गः ॥




Browse Related Categories: