View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.30 बालकांड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रिंशस्सर्गः ।

अथ तौ देशकालज्ञौ राजापुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ 1 ॥

भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥ 2 ॥

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ 3 ॥

अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ 4 ॥

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ 5 ॥

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥ 6 ॥

अथ काले गते तस्मिन् षष्ठेऽहनि समागते ।
सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ 7 ॥

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ॥ 8 ॥

सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥ 9 ॥

मंत्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते ।
आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ॥ 10 ॥

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।
तथामायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ 11 ॥

मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।
आगम्य भीमसंकाशा रुधिरौघमवासृजन् ॥ 12 ॥

सा तेन रुधिरौघेण वेदिर्जज्वाल मंडिता ।
सहसाऽभिद्रुतो रामस्तानपश्य त्ततो दिवि ॥ 13 ॥

तावापतंतौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत् ॥ 14 ॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ 15 ॥

मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ 16 ॥

स तेन परमास्त्रेण मानवेन समाहितः ।
संपूर्णं योजनशतं क्षिप्तस्सागरसंप्लवे ॥ 17 ॥

विचेतनं विघूर्णंतं शीतेषु बलताडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ 18 ॥

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् ।
मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ॥ 19 ॥

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥ 20 ॥

संगृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।
सुबाहूरसि चिक्षेप सविद्धः प्रापतद्भुवि ॥ 21 ॥

शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन् ॥ 22 ॥

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनंदनः ।
ऋषिभिः पूजितस्तत्र यथेंद्रो विजये पुरा ॥ 23 ॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्टवा काकुत्स्थमिदमब्रवीत् ॥ 24 ॥

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं राम महायशः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रिंशस्सर्गः ॥




Browse Related Categories: