View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.98 अयोध्याकांड - अष्टनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टनवतितमस्सर्गः ।

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।
अभिगंतुं स काकुत्थ्समियेष गुरुवर्तकम् ॥ 1 ॥

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ 2 ॥

क्षिप्रं वनमिदं सौम्य नरसंघै स्समंततः ।
लुब्धैश्च सहितैरेभि स्त्वमन्वेषितुमर्हसि ॥ 3 ॥

गुहो ज्ञातिसहस्रेण शरचापासिधारिणा ।
समन्वेषतु काकुत्स्थमस्मिन् परिवृतस्स्वयम् ॥ 4 ॥

अमात्यै स्सह पौरैश्च गुरुभिश्च द्विजातिभिः ।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृत स्स्वयम् ॥ 5 ॥

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।
वैदेहीं च महाभागां न मे शांतिर्भविष्यति ॥ 6 ॥

यावन्न चंद्रसंकाशं द्रक्ष्यामि शुभमाननम् ।
भ्रातुः पद्मपलाशाक्षं न मे शांतिर्भविष्यति ॥ 7 ॥

यावन्न चरणौ भ्रातुः पार्थिवव्यंजनान्वितौ ।
शिरसा धारयिष्यामि न मे शांतिर्भविष्यति ॥ 8 ॥

यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
अभिषेकजलक्लिन्नो न मे शांतिर्भविष्यति ॥ 9 ॥

सिद्धार्थः खलु सौमित्रिर्यश्चंद्रविमलोपमम् ।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ 10 ॥

कृतकृत्या महाभागा वैदेही जनकात्मजा ।
भर्तारं सागरांतायाः पृथिव्या यानुगच्छति ॥ 11 ॥

सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।
यस्मिन्वसति काकुत्स्थः कुबेर इव नंदने ॥ 12 ॥

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।
यदध्यास्ते महातेजा राम श्शस्त्रभृतां वरः ॥ 13 ॥

एवमुक्त्वा महातेजा भरतः पुरषर्षभः ।
पद्भ्यामेव महाबाहुः प्रविवेश महाद्वनम् ॥ 14 ॥

स तानि द्रुमजालानि जातानि गिरिसानुषु ।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ 15 ॥

स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् ।
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् ॥ 16 ॥

तं दृष्ट्वा भरत श्रीमान्मुमोद सह बांधवः ।
अत्र राम इति ज्ञात्वा गतः पारमिवांभसः ॥ 17 ॥

स चित्रकूटे तु गिरौ निशम्यव रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टनवतितमस्सर्गः ॥




Browse Related Categories: