View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.34 युद्धकांड - चतुस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।

अथतांजातंतापांतेनवाक्येनमोहिताम् ।
सरमाह्लादयामासमहींघौरीमिवांभसा ॥ 1 ॥

ततस्तस्याहितंसख्याश्चिकीर्षंतीसखीवचः ।
उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी ॥ 2 ॥

उत्सहेयमहंगत्वात्वद्वाक्यमसितेक्षणेः ।
निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम् ॥ 3 ॥

नहिमेक्रममाणायानिरालंबेविहायसि ।
समर्थोगतिमन्वेतुंपवनोगरुडोऽपिवा ॥ 4 ॥

एवंब्रुवाणांतांसीतासरमांपुनरब्रवीत् ।
मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया ॥ 5 ॥

समर्थागगनंगंतुमपिवात्वंरसातलम् ।
अवगच्छाम्यकर्तव्यंकर्तव्यंतेमदंतरे ॥ 6 ॥

मत्प्रियंयदिकर्तव्यंयदिबुद्धिः स्थिरातव ।
ज्ञातुमिच्छामितंगत्वाकिंकरोतीतिरावणः ॥ 7 ॥

सहिमायाबलःक्रूरोरावणश्शत्रुरावणः ।
मांमोहयतिदुष्टात्मापीतामात्रेववारुणी ॥ 8 ॥

तर्जापयतिमांनित्यंभर्त्सापयतिचासकृत् ।
राक्षसीभिस्सुघूराभिर्यामांरक्षंतिनित्यशः ॥ 9 ॥

उद्विग्नाशंकिताचास्मिनस्वस्थंचमनोमम ।
तद्भयाच्चाहमुद्विग्नाअशोकवनिकांगता ॥ 10 ॥

यदिनामकथातस्यनिश्चितंवापियद्भवेत् ।
निवेदयेथास्सर्वंतत्परोमेस्यादमनुग्रहः ॥ 11 ॥

सात्वेवंब्रुवतींसीतांसरमावल्गुभाषिणी ।
उवाचवदनंतस्यास्स्पृशंतीबाष्पविक्लबम् ॥ 12 ॥

एषतेयद्यभिप्रायस्तदागच्छामिजानकीः ।
गृह्यशत्रोरभिप्रायमुपावृत्तांचपश्यमाम् ॥ 13 ॥

एवमुक्त्वाततोगत्वासमीपंतस्यरक्षसः ।
शुश्रावकथितंतस्यरावणस्यसमंत्रिणः ॥ 14 ॥

साश्रुत्वानिश्चयंतस्यनिश्चयज्ञादुरात्मनः ।
पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम् ॥ 15 ॥

साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् ।
प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम् ॥ 16 ॥

तांतुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् ।
परिष्वज्यचसुस्निग्धंददौचस्वयमासनम् ॥ 17 ॥

इहासीनासुखंसर्वमाख्याहिममतत्त्वतः ।
क्रूरस्यनिश्चयंतस्यरावणस्यदुरात्मनः ॥ 18 ॥

दीयतामभिसत्कृत्यमनुजेंद्रायमैथिली ।
निदर्शनंतेपर्याप्तंजनस्थानेयदद्भुतम् ॥ 19 ॥

लंघनंचसमुद्रस्यदर्शनंचहनूमतः ।
वधंचरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि ॥ 20 ॥

एवंसमंत्रिवृद्धैश्चाविद्धेनबहुभाषितः ।
नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा ॥ 21 ॥

नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिलीः ।
सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते ॥ 22 ॥

तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्नशक्तस्त्वांमोक्तुमनिरस्तस्संयुगे ॥ 23 ॥

रक्षसानांचसर्वेषामात्मनश्चवधेनहि ।
निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः ॥ 24 ॥

प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणेः ।
एतस्मिन्नंतरेशब्दोभेरीशंखसमाकुलः ॥ 25 ॥

श्रुतोवानरसैन्यानांकंपयन् धरणीतलम् ।
श्रुत्वातुतद्वानरसैन्यशब्दंलंकागताराक्षसराजभृत्याः ।
नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यंतिनृपस्यदोषैः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुस्त्रिंशस्सर्गः ॥




Browse Related Categories: