श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिंशस्सर्गः ।
सांत्व्यमाना तु रामेण मैथिली जनकात्मजा ।
वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥ 1 ॥
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम् ।
प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ 2 ॥
किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ 3 ॥
अनृतं बत लोकोऽयमज्ञानाद्यदि वक्ष्यति ।
तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ 4 ॥
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।
यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ 5 ॥
द्युमत्सेनसुतं वीर सत्यवंतमनुव्रताम् ।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ 6 ॥
न त्वहं मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ ।
त्वया राघव गच्छेयं यथाऽन्या कुलपांसिनी ॥ 7 ॥
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।
शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ 8 ॥
यस्य पथ्यं च रामाऽत्थ यस्य चार्थेऽवरुध्यसे ।
त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ॥ 9 ॥
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ।
तपो वा यदि वाऽरण्यं स्वर्गो वा स्यात्सह मे त्वया ॥ 10 ॥
न च मे भविता तत्र कश्चित्पथि परिश्रमः ।
पृष्ठतस्तव गच्छंत्या विहारशयनेष्विव ॥ 11 ॥
कुशकाशशरेषीका ये च कंटकिनो द्रुमाः ।
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ 12 ॥
महावातसमुद्धूतं यन्मामपकरिष्यति ।
रजो रमण तन्मन्ये परार्थ्यमिव चंदनम् ॥ 13 ॥
शाद्वलेषु यथा शिश्ये वनांते वनगोचर ।
कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥ 14 ॥
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।
दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ 15 ॥
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः ।
आर्तवान्युपभुंजाना पुष्पाणि च फलानि च ॥ 16 ॥
न च तत्र ततः किंचिद्द्रष्टुमर्हसि विप्रियम् ।
मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ 17 ॥
य स्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।
इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ 18 ॥
अथ मामेवमव्यग्रां वनं नैव नयिष्यति ।
विषमद्यैव पास्यामि मा विशं द्विषतां गमम् ॥ 19 ॥
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।
उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ 20 ॥
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।
किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ 21 ॥
इति सा शोकसंतप्ता विलप्य करुणं बहु ।
चुक्रोश पतिमायस्ता भृशमालिंग्य सस्वरम् ॥ 22 ॥
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजांगना ।
चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ 23 ॥
तस्या स्फटिकसंकाशं वारि संतापसंभवम् ।
नेत्राभ्यां परिसुस्राव पंकजाभ्यामिवोदकम् ॥ 24 ॥
तच्चैवामलचंद्राभं मुखमायतलोचनम् ।
पर्यशुष्यत बाष्पेण जलोद्धृतमिवांबुजम् ॥ 25 ॥
तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।
उवाच वचनं रामः परिविश्वासयंस्तदा ॥ 26 ॥
न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।
न हि मेऽस्ति भयं किंचित्स्वयंभोरिव सर्वतः ॥ 27 ॥
तव सर्वमभिप्रायमविज्ञाय शुभानने ।
वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ 28 ॥
यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि ।
न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ 29 ॥
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ।
तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला ॥ 30 ॥
न खल्वहं न गच्छेयं वनं जनकनंदिनि ।
वचनं तन्नयति मां पितु स्सत्योपबृंहितम् ॥ 31 ॥
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।
अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ 32 ॥
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।
स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ 33 ॥
यत्त्रयं तत्त्रयो लोकाः पवित्रं तत्समं भुवि ।
नान्यदस्ति शुभापांगे तेनेदमभिराध्यते ॥ 34 ॥
न सत्यं दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
तथा बलकरा स्सीते यथा सेवा पितुर्हिता ॥ 35 ॥
स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च ।
गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ 36 ॥
देवगंधर्वगोलोकान्ब्रह्मलोकां स्तथाऽपरान् ।
प्राप्नुवंति महात्मानो मातापितृपरायणाः ॥ 37 ॥
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः ।
तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ 38 ॥
मम सन्ना मतिस्सीते त्वां नेतुं दंडकावनम् ।
वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ 39 ॥
सा हि सृष्टाऽनवद्यांगि वनाय मदिरेक्षणे ।
अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ 40 ॥
सर्वथा सदृशं सीते मम स्वस्य कुलस्य च ।
व्यवसायमनुक्रांता कांते त्वमतिशोभनम् ॥ 41 ॥
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।
नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते ॥ 42 ॥
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।
देहि चाशंसमानेभ्य स्संत्वरस्व च मा चिरम् ॥ 43 ॥
भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
रमणीयाश्च ये केचित्क्रीडार्थाश्चाप्युपस्कराः ॥ 44 ॥
शयनीयानि यानानि मम चान्यानि यानि च ।
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनंतरम् ॥ 45 ॥
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।
क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ 46 ॥
ततः प्रहृष्टा प्रतिपूर्णमानसा यशश्विनी भर्तुरवेक्ष्य भाषितम् ।
धनानि रत्नानि च दातुमंगना प्रचक्रमे धर्मभृतां मनस्स्विनी ॥ 47 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिंशस्सर्गः ॥