View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.13 बालकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रयोदशस्सर्गः ।

पुनः प्राप्ते वसंते तु पूर्णस्संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ 1 ॥

अभिवाद्य वसिष्ठं च न्यायतः परिपूज्य च ।
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ 2 ॥

यज्ञो मे क्रियतां ब्रह्मन्यथोक्तं मुनिपुंगव ।
यथा न विघ्नः क्रियते यज्ञांगेषु विधीयताम् ॥ 3 ॥

भवान् स्निग्धस्सुहृन्मह्यं गुरुश्च परमो महान् ।
ओढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ 4 ॥

तथेति च स राजानमब्रवीद्द्विजसत्तमः ।
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥ 5 ॥

ततोऽब्रवीद्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ॥ 6 ॥

कर्मांतिकान् शिल्पकरान्वर्धकीन् खनकानपि ।
गणकान्शिल्पिनश्चैव तथैव नटनर्तकान् ॥ 7 ॥

तथा शुचीन्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहंतां भवंतो राजशासनात् ॥ 8 ॥

इष्टका बहु साहस्राश्शीघ्रमानीयतामिति ।
0 उपकार्याः क्रियंतां च राज्ञां बहुगुणान्विताः ॥ 9 ॥

ब्राह्मणावसथाश्चैव कर्तव्याश्शतशश्शुभाः ।
भक्ष्यान्नपानैर्बहुभिस्समुपेतास्सुनिष्ठिताः ॥ 10 ॥

तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ।
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ॥ 11 ॥

तथा जानपदस्यापि जनस्य बहुशोभनम् ।
दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया ॥ 12 ॥

सर्वे वर्णा यथा पूजां प्राप्नुवंति सुसत्कृताः ।
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ॥ 13 ॥

यज्ञकर्मसु ये व्यग्राः पुरुषाश्शिल्पिनस्तथा ।
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ॥ 14 ॥

ते च स्युस्संभृतास्सर्वे वसुभिर्भोजनेन च ।
यथा सर्वं सुविहितं न किंचित्परिहीयते ॥ 15 ॥

तथा भवंतः कुर्वंतु प्रीतिस्निग्धेन चेतसा ।
ततस्सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ 16 ॥

यथोक्तं तत्सुविहितं न किंचित्परिहीयते ।
यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते ॥ 17 ॥

ततस्सुमंत्रमानीय वसिष्ठो वाक्यमब्रवीत् ।
निमंत्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः ॥ 18 ॥

ब्राह्मणान्क्षत्रियान्वैश्यांछूद्रांश्चैव सहस्रशः ।
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ 19 ॥

मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ 20 ॥

तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वसंबंधिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ 21 ॥

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।
वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥ 22 ॥

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ॥ 23 ॥

अंगेश्वरं महाभागं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य समानय यशस्विनम् ॥ 24 ॥

प्राचीनान्सिंधु सौवीरान्सौराष्ट्रेयांश्च पार्थिवान् ।
दाक्षिणात्यान्नरेंद्रांश्च समस्तानानयस्व ह ॥ 25 ॥

संति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।
तानानय यथाक्षिप्रं सानुगान्सह बांधवान् ॥ 26 ॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमंत्रस्त्वरितस्तदा ।
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ 27 ॥

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।
सुमंत्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ 28 ॥

ते च कर्मांतिकास्सर्वे वसिष्ठाय च धीमते ।
सर्वं निवेदयंति स्म यज्ञे यदुपकल्पितम् ॥ 29 ॥

ततःप्रीतो द्विजश्रेष्ठस्तान् सर्वानिदमब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयाऽपि वा ॥ 30 ॥

अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ।
28 ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥ 31 ॥

बहूनि रत्नान्यादाय राज्ञो दशरथस्य वै ।
ततो वसिष्ठस्सुप्रीतो राजानमिदमब्रवीत् ॥ 32 ॥

उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥ 33 ॥

यज्ञीयं च कृतं राजन् पुरुषैस्सुसमाहितैः ।
निर्यातु च भवान्यष्टुं यज्ञायतनमंतिकात् ॥ 34 ॥

सर्वकामैरुपहृतैरुपेतं च समंततः ।
द्रष्टुमर्हसि राजेंद्र मनसेव विनिर्मितम् ॥ 35 ॥

तथा वसिष्ठवचनादृश्यशृंगस्य चोभयोः ।
शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ 36 ॥

ततो वसिष्ठप्रमुखास्सर्व एव द्विजोत्तमाः ।
ऋश्यशृंगं पुरस्कृत्य यज्ञकर्मारभन् तदा ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: