View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.14 बालकांड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चतुर्दशस्सर्गः ।

अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरंगमे ।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ 1 ॥

ऋश्यशृंगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ 2 ॥

कर्म कुर्वंति विधिवद्याजका वेदपारगाः ।
यथाविधि यथान्यायं परिक्रामंति शास्त्रतः ॥ 3 ॥

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ 4 ॥

अभिपूज्य ततो हृष्टास्सर्वे चक्रुर्यथाविधि ।
प्रातस्सवनपूर्वाणि कर्माणि मुनिपुंगवाः ॥ 5 ॥

ऐंद्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघः ।
माध्यंदिनं च सवनं प्रावर्तत यथाक्रमम् ॥ 6 ॥

तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।
चक्रुस्तेशास्त्रतो दृष्ट्वा तथा ब्राह्मणपुंगवाः ॥ 7 ॥

न चाहुतमभूत्तत्र स्खलितं वापि किंचन ।
दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ 8 ॥

न तेष्वहस्सु श्रांतो वा क्षुधितो वापि दृश्यते ।
नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ 9 ॥

ब्राह्मणा भुंजते नित्यं नाथवंतश्च भुंजते ।
तापसा भुंजते चापि श्रमणा भुंजतेतथा ॥ 10 ॥

वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।
अनिशं भुंजमानानां न तृप्तिरुपलभ्यते ॥ 11 ॥

दीयतां दीयतामन्नं वासांसि विविधानि च ।
इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥ 12 ॥

अन्नकूटाश्च बहवो दृश्यंते पर्वतोपमाः ।
दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ 13 ॥

नानादेशादनुप्राप्ताः पुरुषास्स्त्रीगणास्तथा ।
अन्नपानैस्सुविहितास्तस्मिन्यज्ञे महात्मनः ॥ 14 ॥

अन्नं हि विधिवत्साधु प्रशंसंति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ 15 ॥

स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् ।
उपासते च तानन्ये सुमृष्टमणिकुंडलाः ॥ 16 ॥

कर्मांतरे तदा विप्रा हेतुवादान्बहूनपि ।
प्राहुश्च वाग्मिनो धीराः परस्परजिगीषया ॥ 17 ॥

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ 18 ॥

नाषडंगविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ 19 ॥

प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा ।
तावंतो बिल्वसहिताः पर्णिनश्च तथापरे ॥ 20 ॥

श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा ।
द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ ॥ 21 ॥

प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा ।
तावंतो बिल्वसहिताः पर्णिनश्च तथापरे ॥ 22 ॥

श्लेष्मातकमयस्त्वेको देवदारुमयस्तथा ।
द्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ ॥ 23 ॥

कारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
शोभार्थं तस्य यज्ञस्य कांचनालंकृताऽभवन् ॥ 24 ॥

एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥ 25 ॥

विन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढाः ।
अष्टाश्रयस्सर्व एव श्लक्ष्णरूपसमन्विताः ॥ 26 ॥

आच्छादितास्ते वासोभिः पुष्पैर्गंधैश्च भूषिताः ।
सप्तर्षयो दीप्तिमंतो विराजंते यथा दिवि ॥ 27 ॥

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैश्शुल्बकर्मणि ॥ 28 ॥

सचित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ 29 ॥

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ 30 ॥

शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
ऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ 31 ॥

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च ॥ 32 ॥

कौसल्या तं हयं तत्र परिचर्य समंततः ।
कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ 33 ॥

पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
अवसद्रजनीमेकां कौशल्या धर्मकाम्यया ॥ 34 ॥

होताऽध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।
महिष्या परिवृत्त्या च वावातां च तथापराम् ॥ 35 ॥

पतत्रिणस्तस्य वपा मुद्धृत्य नियतेंद्रियः ।
ऋत्विक्परमसंपन्नः श्रपयामास शास्त्रतः ॥ 36 ॥

धूमगंधं वपायास्तु जिघ्रति स्म नराधिपः ।
यथाकालं यथान्यायं निर्णुदन्पापमात्मनः ॥ 37 ॥

हयस्य यानि चांगानि तानि सर्वाणि ब्राह्मणाः ।
अग्नौ प्रास्यंति विधिवत्समंत्राष्षोडशर्त्विजः ॥ 38 ॥

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।
अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ 39 ॥

त्र्यहोऽश्वमेधस्संख्यातः कल्पसूत्रेण ब्राह्मणैः ।
37 चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ 40 ॥

उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।
कारितास्तत्र बहवो विहिताश्शास्त्रदर्शनात् ॥ 41 ॥

ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ ।
अभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतुः ॥ 42 ॥

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ 43 ॥

उद्गात्रे च तथोदीचीं दक्षिणैषा विनिर्मिता ।
हयमेधे महायज्ञे स्वयंभूविहिते पुरा ॥ 44 ॥

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो हि ददौ राजा तां धरां कुलवर्धनः ॥ 45 ॥

ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् ।
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ 46 ॥

न भूम्या कार्यमस्माकं न हि शक्तास्स्म पालने ।
रतास्स्वाध्यायकरणे वयं नित्यं हि भूमिप ॥ 47 ॥

निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति ।
4 मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।
तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ 48 ॥

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ॥ 49 ॥

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।
4 शतकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥ 50 ॥

ऋत्विजश्च ततस्सर्वे प्रददुस्सहिता वसु ।
ऋश्यशृंगाय मुनये वसिष्ठाय च धीमते ॥ 51 ॥

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।
सुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ 52 ॥

ततः प्रसर्पकैभ्यस्तु हिरण्यं सुसमाहितः ।
जांबूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा ॥ 53 ॥

दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।
कस्मैचिद्याचमानाय ददौ राघवनंदनः ॥ 54 ॥

ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।
प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ 55 ॥

तस्याशिषोऽथ विधिवद्ब्राह्मणैस्समुदीरिताः ।
उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ 56 ॥

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।
पापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥ 57 ॥

ततोऽब्रवीदृश्यशृंगं राजा दशरथस्तदा ।
कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ 58 ॥

तथेति च स राजानमुवाच द्विजसत्तमः ।
भविष्यंति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ 59 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चतुर्दशस्सर्गः ॥




Browse Related Categories: