श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षड्विंशस्सर्गः ।
दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।
संदिदेश महाबाहुर्भीमवेगांदुरासदान् ॥ 1 ॥
राक्षसान्पंचसहस्रान्समरेष्वनिवर्तिनः ।
ते शूलैः पट्टिशैः खंगै शिलावर्षैर्द्रुमैरपि ॥ 2 ॥
शरवर्षैरविच्छिन्नं ववर्षुस्तं समंततः ।
स दृमाणां शिलानां च वर्षं प्राणहरं महत् ॥ 3 ॥
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ॥ 4 ॥
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ 5 ॥
शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम् ।
ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः ॥ 6 ॥
शरैरशनिकल्पैस्तं राघवं समवाकिरत् ।
ततो रामस्सुसंकृद्धः क्षुरेणास्य महद्धनुः ॥ 7 ॥
चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ।
हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचंद्रेण सारथेः ॥ 8 ॥
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि ।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ 9 ॥
जग्राह गिरिशृंगाभं परिघं रोमहर्षणम् ।
वेष्टितं कांचनैः पट्टैर्देवसैन्यप्रमर्दनम् ॥ 10 ॥
आयसैश्शंकुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ 11 ॥
तं महोरगसंकाशं प्रगृह्य परिघं रणे ।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ 12 ॥
तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ 13 ॥
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ 14 ॥
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ 15 ॥
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ 16 ॥
एतस्मिन्नंतरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।
संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ 17 ॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥ 18 ॥
स्थूलाक्षः पट्टिसं गृह्य प्रमाथी च परश्वधम् ।
दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः ॥ 19 ॥
तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ।
महाकपालस्य शिरश्चिच्छेद परमेषुभिः ॥ 20 ॥
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।
स पपात हतो भूमौ विटपीव महाद्रुमः ॥ 21 ॥
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।
दूषणस्यानुगान्पंचसहस्रान्कुपितः क्षणात् ॥ 22 ॥
बाणौघैः पंचसाहस्रैरनयद्यमसादनम् ।
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ॥ 23 ॥
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान् ।
अयं विनिहतस्संख्ये दूषणस्सपदानुगः ॥ 24 ॥
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् ।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ॥ 25 ॥
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥ 26 ॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
मेघमाली महामाली सर्पास्यो रुधिराशनः ॥ 27 ॥
द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः ।
राममेवाभ्यधावंत विसृजंतश्शरोत्तमान् ॥ 28 ॥
ततः पावकसंकाशैर्हेमवज्रविभूषितैः ।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ 29 ॥
ते रुक्मपुंखा विशिखास्सधूमा इव पावकाः ।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ 30 ॥
रक्षसां तु शतं रामश्शतेनैकेन कर्णिना ।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ 31 ॥
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।
निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः ॥ 32 ॥
तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः ।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ 33 ॥
क्षणेन तु महाघोरं वनं निहतराक्षसम् ।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ 34 ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
हतान्येकेन रामेण मानुषेण पदातिना ॥ 35 ॥
तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः ।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ 36 ॥
शेषा हता महासत्वा राक्षसा रणमूर्धनि ।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ 37 ॥
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।
रथेन रामं महता खरस्तदा समाससादेंद्र इवोद्यताशनिः ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षड्विंशस्सर्गः ॥