श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षट्त्रिंशस्सर्गः ।
भूय एव महातेजा हनूमान्पवनात्मजः ।
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ 1 ॥
वानरोऽहं महाभागे दूतो रामस्य धीमतः ।
रामनामांकितं चेदं पश्य देव्यंगुलीयकम् ॥ 2 ॥
प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना ।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ 3 ॥
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।
भर्तारमिव संप्राप्ता जानकी मुदिताऽभवत् ॥ 4 ॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ 5 ॥
ततस्सा ह्रीमती बाला भर्तृसंदेशहर्षिता ।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ॥ 6 ॥
विक्रांतस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ॥ 7 ॥
शतयोजनविस्तीर्ण स्सागरो मकरालयः ।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ॥ 8 ॥
न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।
यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः ॥ 9 ॥
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।
यद्यसि प्रेषितस्तेन रामेण विदितात्मना ॥ 10 ॥
प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् ।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ॥ 11 ॥
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः ।
लक्ष्मणश्च महातेजास्सुमित्रानंदवर्धनः ॥ 12 ॥
कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ।
महीं दहति कोपेन युगांताग्निरिवोत्थितः ॥ 13 ॥
अथवा शक्तिमंतौ तौ सुराणामपि निग्रहे ।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ॥ 14 ॥
कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥ 15 ॥
कच्चिन्न दीन स्संभ्रांतः कार्येषु न च मुह्यति ।
कच्चित्पुरुषकार्याणि कुरुते नृपतेस्सुतः ॥ 16 ॥
द्विविधं त्रिविधोपायमुपायमपि सेवते ।
विजिगीषुस्सुहृत्कच्चिन्मित्रेषु च परंतपः ॥ 17 ॥
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।
कच्चित्कल्याणमित्त्रश्च मित्रत्त्रैश्चापि पुरस्कृतः ॥ 18 ॥
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।
कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते ॥ 19 ॥
कच्चिन्न विगतस्नेहः प्रवासान्मयि राघवः ।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ॥ 20 ॥
सुखानामुचितो नित्यमसुखानामनौचितः ।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ 21 ॥
कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च ।
अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥ 22 ॥
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ 23 ॥
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।
ध्वजिनीं मंत्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ 24 ॥
वानराधिपतिश्शीमान्सुग्रीवः कच्चिदेष्यति ।
मत्कृते हरिभिर्वीरैर्वृतो दंतनखायुधैः ॥ 25 ॥
कच्चिच्छ लक्ष्मणश्शूरस्सुमित्रानंदवर्धनः ।
अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ 26 ॥
रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ 27 ॥
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगंधि ।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ 28 ॥
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति ॥ 29 ॥
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा ।
तावत्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ 30 ॥
इतीव देवी वचनं महार्थं तं वानरेंद्रं मधुरार्थमुक्त्वा ।
श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ॥ 31 ॥
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।
शिरस्यंजलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ 32 ॥
न त्वामिहस्थां जानीते रामः कमललोचने ।
तेन त्वां नानयत्याशु शचीमिव पुरंदरः ॥ 33 ॥
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् ॥ 34 ॥
विष्टंभयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ।
करिष्यति पुरीं लंकां काकुत्स्थः शांतराक्षसाम् ॥ 35 ॥
तत्र यद्यंतरा मृत्युर्यदि देवास्सहासुराः ।
स्थास्यंति पथि रामस्य स तानपि वधिष्यति ॥ 36 ॥
तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।
न शर्म लभते रामस्सिंहार्दित इव द्विपः ॥ 37 ॥
मलयेन च विंध्येन मेरुणा मंदरेण च ।
दर्दुरेण च ते देवि शपे मूलफलेन च ॥ 38 ॥
यथा सुनयनं वल्गु बिंबोष्ठं चारु कुंडलम् ।
मुखं द्रक्ष्यसि रामस्य पूर्णचंद्रमिवोदितम् ॥ 39 ॥
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ।
शतक्रतुमिवासीनं नागराजस्य मूर्धनि ॥ 40 ॥
न मांसं राघवो भुङक्ते न चाऽपि मधु सेवते ।
वन्यं सुविहितं नित्यं भक्तमश्नाति पंचमम् ॥ 41 ॥
नैव दंशान्न मशकान्न कीटान्न सरीसृपान् ।
राघवोऽपनयेद्गात्रात्त्वद्गतेनांतरात्मना ॥ 42 ॥
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।
नान्यच्चिंतयते किंचित्स तु कामवशं गतः ॥ 43 ॥
अनिद्रस्सततं रामस्सुप्तोऽपि च नरोत्तमः ।
सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते ॥ 44 ॥
दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत्सुमनोहरम् ।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ॥ 45 ॥
स देवि नित्यं परितप्यमान स्त्वामेव सीतेत्यभिभाषमाणः ।
धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ॥ 46 ॥
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका ।
शरन्मुखे सांबुदशेषचंद्रा निशेव वैदेहसुता बभूव ॥ 47 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षट्त्रिंशस्सर्गः ॥