View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.17 सुंदरकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तदशस्सर्गः ।

ततः कमुदषंडाभो निर्मलं निर्मलोदयः ।
प्रजगाम नभश्चंद्रो हंसो नीलमिवोदकम् ॥ 1 ॥

साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।
चंद्रमा रश्मिभिश्शीतैस्सिषेवे पवनात्मजम् ॥ 2 ॥

स ददर्श ततः सीतां पूर्णचंद्रनिभाननाम् ।
शोकभारैरिव न्यस्तां भारैर्नावमिवांभसि ॥ 3 ॥

दिदृक्षमाणो वैदेहीं हनुमान्मारुतात्मजः ।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ 4 ॥

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।
अकर्णां शंकुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ 5 ॥

अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम् ।
ध्वस्तकेशीं तथाऽकेशीं केशकंबलधारिणीम् ॥ 6 ॥

लंबकर्णललाटां च लंबोदरपयोधराम् ।
लंबोष्ठीं चुबुकोष्ठीं च लंबास्यां लंबजानुकाम् ॥ 7 ॥

ह्रस्वां दीर्घां तथा कुब्जां विकटां वामनां तथा ।
करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम् ॥ 8 ॥

विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः ।
कालायसमहाशूलकूटमुद्गरधारिणीः ॥ 9 ॥

वराहमृगशार्दूलमहिषाजशिवामुखीः ।
गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ॥ 10 ॥

एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ 11 ॥

अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ।
गजसन्निभनासाश्च ललाटोच्छवासनासिकाः ॥ 12 ॥

हस्तिपादा महापादा गोपादाः पादचूलिकाः ।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ 13 ॥

अतिमात्रास्यनेत्राश्च दीर्घजिह्वानखास्तथा ।
अजामुखीर्हस्तिमुखीर्गोमुखीस्सूकरीमुखीः ॥ 14 ॥

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ 15 ॥

कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ।
पिबंतीः सततं पानं सदा मांससुराप्रियाः ॥ 16 ॥

मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः ।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥ 17 ॥

स्कंधवंतमुपासीनाः परिवार्य वनस्पतिम् ।
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिंदिताम् ॥ 18 ॥

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम् ।
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ 19 ॥

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ 20 ॥

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम् ।
राक्षसाधिपसंरुद्धां बंधुभिश्च विना कृताम् ॥ 21 ॥

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।
चंद्ररेखां पयोदांते शारदाभ्रैरिवावृताम् ॥ 22 ॥

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।
सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥ 23 ॥

अशोकवनिकामथ्ये शोकसागरमाप्लुताम् ।
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ 24 ॥

ददर्श हनुमान् देवीं लतामकुसुमामिव ।
सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता ॥ 25 ॥

मृणाली पंकदिग्धेव विभाति न विभाति च ।
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ 26 ॥

संवृतां मृगशाबाक्षीं ददर्श हनुमान् कपिः ।
तां देवीं दीनवदनामदीनां भर्तृतेजसा ॥ 27 ॥

रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ।
तां दृष्ट्वा हनुमान् सीतां मृगशाबनिभेक्षणाम् ।
मृगकन्यामिव त्रस्तां वीक्षमाणां समंततः ॥ 28 ॥

दहंतीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।
संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ 29 ॥

तां क्षमां सुविभक्तांगी विनाभरणशोभिनीम् ॥ 30 ॥

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।
मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ 31 ॥

नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: