View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.60 युद्धकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षष्टितमस्सर्गः ।

सप्रविश्यपुरींलंकांरामबाणभयार्धितः ।
भग्नदर्पस्तदाराजाबभूवव्यथितेंद्रियः ॥ 1 ॥

मातंग इव सिम्हेन गरुडेनेव पन्नगः ।
अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ 2 ॥

ब्रह्मदंडप्रतीकानांविद्युत्सदृशवर्चसाम् ।
स्मरन्राघवबाणानांविव्यथेराक्षसेश्वरः ॥ 3 ॥

नकांचनमयंदिव्यमाश्रित्यपरमासनम् ।
विप्रेक्षमाणोरक्षांसिरावणोवाक्यमब्रवीत् ॥ 4 ॥

सर्वंतत्खलुमेमोघंयत्तप्तंपरमंतपः ।
यत्समानोमहेंद्रेणमानुषेणास्मिर्जितः ॥ 5 ॥

इदंतद्ब्रह्मणोघोरंवाक्यंमामभ्युपस्थितम् ।
मानुषेभ्योविजानीहिभयंत्वमितितत्तथा ॥ 6 ॥

देवदानवगंधर्वैर्यक्षराक्षसपन्नगैः ।
अवध्यत्वंमयाप्राप्तंमानुषेभ्योनयाचितम् ॥ 7 ॥

विदितं मानुषं मन्ये रामं दशरथात्मजम् ।
इक्ष्वाकुकुलजातेन अनर्ण्येन यत् पुरा ॥ 8 ॥

उत्पत्स्यतेहिमद्वंशेपुरुषोराक्षसाधनु ।
यस्त्वांसपुत्रंसामात्यंसबलंसाश्वसारथिम् ॥ 9 ॥

निहनिष्यतिसंग्रामेत्वांकुलाधम दुर्मते ।
शप्तोऽहंवेदवत्याचयदासाधर्षितापुरा ॥ 10 ॥

सेयंसीतामहाभागाजाताजनकनंदिनी ।
उमानंदीश्वरश्चापिरंभावरुणकन्यका ॥ 11 ॥

यथोक्तास्तन्मयाप्राप्तंनमिथ्याऋषिभाषितं एतदेवाभ्युपागम्ययत्नंकर्तुमहार्हथ ॥ 12 ॥

राक्षसाश्चापितिष्ठंतुचर्यागोपुरमूर्थसु ।
सचाप्रतिमगांभीर्योदेवदानवदर्पहा ॥ 13 ॥

ब्रह्मशापाभिभूतस्तुकुंभकर्णोविबोध्यताम् ।
सपराजितमात्मानंप्रहस्तंचनिषूदितम् ॥ 14 ॥

ज्ञात्वारक्षोबलंभीममादिदेशमहाबलः ।
द्वारेषुयत्नःक्रियतांप्राकारश्चाधिरुह्यताम् ॥ 15 ॥

निद्रावशसमाविष्टःकुंभकर्णोविबोद्यताम् ।
सुखंस्वपितिनिश्चिंतःकालोपहतचेतनः ॥ 16 ॥

नवषट् सप्तचाष्टौचमासान् स्वपितिराक्षसः ।
मंत्रयित्वाप्रसुप्तोऽयमितस्तुनवमेऽहनि ॥ 17 ॥

तंतुबोधयतक्षिप्रंकुंभकर्णंमहाबलम् ।
सतुसङ् ख्येमहाबाहुःककुदस्सर्वरक्षसाम् ॥ 18 ॥

वानरान् राजपुत्रौचक्षिप्रमेवहनिष्यति एषःकेतुःपरंसङ् ख्येमुख्योवैसर्वरक्षसाम् ॥ 19 ॥

कुंभकर्णःसदाशेतेमूढोग्राम्यसुखेरतः ।
रामेणहिनिरस्तस्यसंग्रामेऽस्मिन् सुदारुणे ॥ 20 ॥

भविष्यतिनमेशोकःकुंभकर्णेविबोधिते ।
किंकरिष्याम्यहंतेनशक्रतुल्यबलेनहि ॥ 21 ॥

ईदृशेव्यसनेघोरेयोनसाह्यायकल्पते ।
तेतुतद्वचनंश्रुत्वाराक्षसेंद्रस्यराक्षसाः ॥ 22 ॥

जग्मुःपरमसंभ्रांताःकुंभकर्णनिवेशनम् ।
तांप्रविश्यमहाद्वारंसर्वतोयोजनायताम् ॥ 23 ॥

कुंभकर्णगुहांरम्यांसर्वगंधप्रवाहिनीम् ।
कुंभकर्णस्यनिःश्वासादवधूतामहाबलाः ॥ 24 ॥

प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम् ।
तांप्रविश्यगुहांरम्यांशुभांकांचनकुट्टिमाम् ॥ 25 ॥

ददृशुर्नैरृतव्याघ्रंशयानंभीमविदर्शनम् ।
तेतुतंविकृतंसुप्तंविकीर्णमिवपर्वतम् ॥ 26 ॥

कुंभकर्णंमहानिद्रंसहिताःप्रत्यबोधयन् ।
ऊर्ध्वरोमांचिततनुंश्वसंतमिवपन्नगम् ।
भ्रामयंतं न्विश्श्वसैःशयानं भीमविदर्शमम् ॥ 27 ॥

भीमनासापुटंतंतुपातालोविपुलाननम् ।
शयनेन्यस्तसर्वांगंमेदोरुधिरगंधिनम् ॥ 28 ॥

कांचनांगदनद्धांगंकिरीटिनमरिंदमम् ।
ददृशुर्नैरृतव्याघ्रंकुंभकर्णमरिंदमम् ॥ 29 ॥

ततश्चक्रुर्महात्मानंकुंभकर्णाग्रतस्तदाचाग्रतः ॥ 30 ॥

मांसानांमेरुसंकाशंराशिंपरमतर्पणम् ।
मृगाणांमहिषाणांचवराहाणांचसंचयान् ॥ 31 ॥

चक्रुर्नैरृतशार्दूलाराशिमन्नस्यचाद्भुतम् ।
ततश्शोणितकुंभांश्चमद्यानिविविधानिच ॥ 32 ॥

पुरस्तात्कुंभकर्णस्यचक्रुस्त्रिदशशत्रवः ।
लिलिपुश्चपरार्ध्येनचंदनेनपरंतपम् ॥ 33 ॥

दिव्यैराश्वासयामामासुर्माल्यैर्गंधैस्सुगंधिभिः ।
धूपंसुगंधांश्चससृजुस्तुष्टवुश्चपरंततम् ॥ 34 ॥

जलदाइवचानेदुर्यातुधानास्ततस्ततः ।
शंखांनापूरयामासुश्शशांकसदृशप्रभान् ॥ 35 ॥

तुमुलंयुगपच्छापिविनेदुश्चाप्यमर्षिताः ।
नेदुरास्फोटयामासुश्चिक्षिपुस्तेनिशाचराः ॥ 36 ॥

कुंभकर्णविबोधार्थं चक्रुस्तेविपुलं स्वनम् ।
सशंखभेरीपणवप्रणाद ।
मास्फोटितक्ष्वेलितसिम्हनादम् ।
दिशो द्रवंतस्त्रिदिवं किरंतः ।
श्रुत्वा विहम्गाः सहसा निपेतुः ॥ 37 ॥

यदाभृशंतैर्निनदैर्महात्मानकुंबकर्णोबुबुधेप्रसुप्तः ।
ततोमुसुंठीर्मुसलानिसर्वेरक्षोगणास्तेजगृहुर्गदाश्च ॥ 38 ॥

तंशैलशृंगैर्मुसलैर्गदाभिर्वृक्षैस्तरैर्मुद्गरमुष्टिभिश्च ।
सुखप्रसुप्तंभुविकुंभकर्णंरक्षांस्युदग्राणितदानिजघ्नुः ॥ 39 ॥

तस्यनिःश्वासवातेनकुंभकर्णस्यरक्षसः ।
राक्षसाबलवंतोऽपिस्थातुनाशक्नुवन्पुरः ॥ 40 ॥

ततःपरिहितागाढंराक्षसाभीमविक्रमाः ।
मृदंगपणवान् भेरीश्शंखकुंभगणांस्तथा ॥ 41 ॥

दशराक्षससाहस्रंयुगपत्पर्यवारयन् ।
नीलांजनचयाकारंतेतुतंप्रत्यबोधयन् ॥ 42 ॥

अभिघ्नंतोनदंतश्चनैवसंविविदेतुसः ।
यदाचैनंनशेकुस्तेप्रतिबोधयितुंतदा ॥ 43 ॥

ततोगुरुतरंयत्नंदारुणंसमुपाक्रमन् ।
आश्वानुष्ट्रान् खरन्नागान् जघ्नुर्दंडकशांकुशैः ॥ 44 ॥

भेरीशंखमृदंगांश्चसर्वप्राणैरवादयन् ।
निजघ्नुश्चास्यगात्राणिमहाकाष्ठकंकरैः ॥ 45 ॥

मुद्गरैर्मुसलैश्चापिसर्वप्राणसमुद्यतैः ।
तेननादेवमहतालंकासमभिपूरिता ॥ 46 ॥

सपर्वतवनासर्वासोऽपिनैवप्रबुध्यते ।
ततस्सहस्रंभेरीणांयुगसत्समहन्यत ॥ 47 ॥

मृष्टकांचनकोणानामासक्तानांसमंततः ।
एवमप्यंतिद्रिस्तुयदानैवप्रबुध्यत ॥ 48 ॥

शापस्यवशमापन्नस्ततःक्रुद्धानिशाचराः ।
महाक्रोधसमाविष्टास्सर्वेभीमपराक्रमाः ॥ 49 ॥

तद्रक्षोबोधयिष्यंतश्चक्रुरन्येपराक्रमम् ।
अन्येभेरीस्समाजघ्नुरन्येचक्रुर्महास्वनम् ॥ 50 ॥

केशानन्येप्रलुलुपुःकर्णावन्येदशंतिच ।
उदकुंबशतान्यन्येसमसिंचंतकर्णयोः ॥ 51 ॥

नकुंभकर्णःपस्पंदेमहानिद्रावशंगतः ।
अन्येचबलिनस्तस्यकूटमुद्गरपाणयः ॥ 52 ॥

मूर्ध्निवक्षसिगात्रेषुपातन् कूटमुद्गरान् ।
रज्जुबंधनबद्धाभिश्शतघ्नीभिश्चसर्वशः ॥ 53 ॥

वध्यमानोमहाकायोनप्राबुध्यतराक्षसः ।
वारणानांसहस्रंचशरीरेऽस्यप्रधावितम् ॥ 54 ॥

कुंबकर्णस्तदाबुद् ध्वास्पर्शंपरमबुध्यत ।
सपात्यमानैर्गिरिशृंगवृक्षैरचिंतयंस्तान्विपुलान् प्रहारान् ।
निद्राक्ष्यात् क्षुद्भयपीडितश्चविजृंभमाणस्सहसोत्पपाप ॥ 55 ॥

सनागभोगाचलशृंगकल्पौविक्षिप्यबाहूगिरशृंगसारौ ।
निवृत्यवक्त्रंवडवामुखाभंनिशाचरोऽसौविकृतंजजृंभे ॥ 56 ॥

तस्य जाजृंभमाणस्य वक्त्रं पातालसम्निभम् ।
दद्R​उशे मेरुशृंगाग्रे दिवाकर इवोदितः ॥ 57 ॥

सजृंभमाणोऽतिबलःप्रद्धोनिशाचरः ।
निःश्वासश्चास्यसंजज्ञेपर्वतादिवमारुतः ॥ 58 ॥

रूपमुत्तिष्ठतस्तस्यकुंभकर्णस्यतद्बभौ ।
तपांतेसबलाकस्यमेघस्येवविवर्षतः ॥ 59 ॥

तस्यदीप्ताग्निसदृशेविद्युत्सदृशवर्चसी ।
ददृशातेमहानेत्रेदीप्ताविवमहाग्रहौ ॥ 60 ॥

ततस्त्वदर्शयन् सर्वान्भक्ष्यांश्चविविधान् बहून् ।
वराहान्महिषांश्चैवबभक्षसमहाबलः ॥ 61 ॥

आददुन्भुक्षितोमांसंशोणितंतृषितःपिबन् ।
मेदःकुंभांश्चमद्यांश्चपपौशक्ररिपुस्तदा ॥ 62 ॥

ततस्तृप्त इति ज्ञात्वा समुत्पेरुर्निशाचराः ।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ 63 ॥

निद्राविशदनेत्रस्तुकलुषीकृतलोचनः ।
चारयन् सर्वतोदृष्टिंतान् ददर्शनिशाचरान् ॥ 64 ॥

ससर्वान् सांत्वयामासनैरृतान् नैरृतर्षभः ।
बोधनाद्विस्मितश्चापिराक्षसानिदमब्रवीत् ॥ 65 ॥

किमर्थमहमादृत्यभवद्भिःप्रतिबोधितः ।
कच्छित्सुकुशलंराज्ञोभयंवानेषनकिम् ॥ 66 ॥

अथवाध्रुवमन्येभ्योभयंपरमुपस्थितम् ।
यदर्थमेवत्वरितैर्भवद्भिःप्रतिबोधितः ॥ 67 ॥

अद्यराक्षसराजस्यभयमुत्पाटयाम्यहम् ।
दारयिष्येमहेंद्रंवाशातयिष्येतथानलम् ॥ 68 ॥

नह्यल्पकारणेसुप्तंबोधयिष्यतिमांगुरुः ।
तदाख्यातार्थतत्त्वेनमत्प्रबोधनकारणम् ॥ 69 ॥

एवंब्रुवाणंसम्रब्धंकुंभकर्णमरिंदमम् ।
यूपाक्षःसचिवोराज्ञःकृतांजलिरभाषत ॥ 70 ॥

ननोदेवकृतंकिंचिद्भयमस्तिकदाचन ।
मानुषान्नोभयंराजंस्तुमुलंसंप्रबाधते ॥ 71 ॥

नदैत्यदानवेभ्योवाभयमस्तिहितादृशम् ।
यादृशंमानुषंराजन् भयमस्मानुपस्थितम् ॥ 72 ॥

वानरैःपर्वताकारैर्लंकेयंपरिवारिता ।
सीताहरणसंतप्ताद्रामान्नस्तुमुलंभयम् ॥ 73 ॥

एकेनवानरेणेयंपूर्वंदग्धामहापुरी ।
कुमारोनिहतश्चाक्षस्सानुयात्रःसकुंजरः ॥ 74 ॥

स्वयंरक्षोधिपश्चापिपौलस्त्योदेवकंटकः ।
मृतेतिसंयुगेमुक्तोरामेणादित्यतेजसा ॥ 75 ॥

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ 76 ॥

सयूपाक्ष्वचश्श्रुत्वाभ्रातुर्युधिपराभवम् ।
कुंभकर्णोविवृत्ताक्षोयूपाक्षमिदमब्रवीत् ॥ 77 ॥

सर्वमद्यैवयूपाक्षहरिसैन्यंसलक्ष्मणम् ।
राघवंचरणेजित्वाततोद्रक्ष्यामिरावणम् ॥ 78 ॥

राक्षसांस्तर्पयिष्यामिहरीणांमांसशोणितैः ।
रामलक्ष्मणयोश्चापिस्वयंपास्यामिशोणितम् ॥ 79 ॥

तत्तस्यवाक्यंब्रुवतोनिशम्यसगर्वितंरोषविवृद्धदोषम् ।
महोदरोनैरृतयोधमुख्यःकृतांजलिर्वाक्यमिदंबभाषे ॥ 80 ॥

रावणस्यवचःश्रुत्वागुणदोषौविमृश्यच ।
पश्चादपिमहाबाहो शत्रून्युधिविजेष्यसि ॥ 81 ॥

महोदरवचश्श्रुत्वाराक्षसैःपरिवारितः ।
कुंभकर्णोमहातेजास्संप्रतस्थेमहाबलः ॥ 82 ॥

सुप्तमुत्थाप्यभीमाक्षंभीमरूपपराक्रमम् ।
राक्षसास्त्वरिताजुग्मर्दशग्रीन्विवेशनम् ॥ 83 ॥

ततोगत्वादशग्रीवमासीनंपरमासने ।
ऊचुर्बद्धांजलिपुटास्सर्वएवनिशाचराः ॥ 84 ॥

प्रबुद्धोऽयंकुंभकर्णभ्रातातेराक्षसेश्वर ।
कथंतत्रैवनिर्यातुद्रक्ष्यसेतमिहागतम् ॥ 85 ॥

रावणस्त्वब्रवीद्धृष्टोराक्षसांस्तानुपस्थितान् ।
द्रष्टुमेनमिहेच्छामियथान्यायंचपूज्यताम् ॥ 86 ॥

तथेत्युक्त्वातुतेसर्वेपुनरागम्यराक्षसाः ।
कुंभकर्णमिदंवाक्यमूचूरावणचोदिताः ॥ 87 ॥

द्रष्टुंत्वांकांक्षतेराजासर्वराक्षसपुंगवः ।
गमनेक्रियतांबुद्धिर्भ्रातरंसंप्रहर्षयः ॥ 88 ॥

कुंभकर्णस्तुदुर्धर्षोभ्रातुराज्ञायशासनम् ।
तथेत्युक्त्वामहावीर्यश्शयनादुत्पपातह ॥ 89 ॥

प्रक्षाल्य वदनं ह्R​ष्टः स्नातः परमभूषितः ।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ 90 ॥

ततस्तेत्वरितास्तत्रराक्षसारावणाज्ञया ।
मद्यकुंभांश्चविविधान् क्षिप्रमेवोपहारयन् ॥ 91 ॥

पीत्वाघटसहस्रेद्वेगमनायोपचक्रमे ।
ईषत्समुत्कटोमत्तस्तेजोबलसमन्वितः ॥ 92 ॥

कुंभकर्णोबभौहृष्टःकालांतकयमोपमः ।
भ्रातुस्सभवनंगच्छन्रक्षोबलसमन्वितः ॥ 93 ॥

कुंभकर्णः पदन्यासैरकंपयत मेदिनीम् ।
स राजमार्गं वपुषा प्रकाशयन् ।
सहस्ररस्मिर्धरणीमिवांशुभिः ।
जगाम तत्रांजलिमालया वृतः ।
शतक्रतुर्गेहमिव स्वयंभुवः ॥ 94 ॥

तंराजमार्गस्थममित्रघातिनंवनौकसस्तेसहसाबहिस्स्थिताः ।
दृष्टवाऽप्रमेयंगिरिशृंगकल्पंवितत्रसुस्तेहरियूथपालाः ॥ 95 ॥

केचिच्छरण्यंशरणंस्मरामंव्रजंतिकेचिद् व्यथिताःपतंति ।
केचिद्धशस्मव्यथिताःपतंतिकेचिद्भयार्ताभुविशेरतेस्म ॥ 96 ॥

तमद्रिशृंगप्रतिमंकिरीटिनंस्पृशंतमादित्यमिवाऽत्मतेजसा ।
वनौकसःप्रेक्ष्यविवृद्धमद्भुतं 3 भयार्धितादुद्रुविरेततस्ततः ॥ 97 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: