View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.50 सुंदरकांड - पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचाशस्सर्गः ।

तमुद्वीक्ष्य महाबाहुः पिंगाक्षं पुरत स्थितम् ।
कोपेन महताऽविष्टो रावणो लोकरावणः ॥ 1 ॥

शंकाहृतात्मा दध्यौ स कपींद्रं तेजसावृतम् ।
किमेष भगवान्नंदी भवेत्साक्षादिहागतः ॥ 2 ॥

येन शप्तोऽस्मि कैलासे मया संचालिते पुरा ।
सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः ॥ 3 ॥

स राजा रोषताम्राक्षः प्रहस्तं मंत्रिसत्तमम् ।
कालयुक्तमुवाचेदं वचोऽविपुलमर्थवत् ॥ 4 ॥

दुरात्मा पृच्छ्यतामेष कुतः किं वात्र कारणम् ।
वनभंगे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥ 5 ॥

मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम् ।
आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः ॥ 6 ॥

रावणस्य वचश्श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥ 7 ॥

यदि तावत्त्वमिंद्रेण प्रेषितो रावणालयम् ।
तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ॥ 8 ॥

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।
चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ॥ 9 ॥

विष्णुना प्रेषितो वाऽपि दूतो विजयकांक्षिणा ।
न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥ 10 ॥

तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।
अनृतं वदतश्चापि दुर्लभं तव जीवितम् ॥ 11 ॥

अथवा यन्निमित्तस्ते प्रवेशो रावणालये ।
एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ 12 ॥

अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।
धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥ 13 ॥

जातिरेव मम त्वेषा वानरोऽहमिहागतः ।
दर्शने राक्षसेंद्रस्य दुर्लभे तदिदं मया ॥ 14 ॥

वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।
ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः ।
रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ॥ 15 ॥

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥ 16 ॥

पितामहादेष वरो मामाप्येषोऽभ्युपागतः ।
राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ॥ 17 ॥

विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।
केनचिद्राजकार्येण संप्राप्तोऽस्मि तवांतिकम् ॥ 18 ॥

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ।
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचाशस्सर्गः ॥




Browse Related Categories: