View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.8 किष्किंधाकांड - अष्टम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टमस्सर्गः ।

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ 1 ॥

सर्वथाऽहमनुग्राह्यो देवतानां न संशयः ।
उपपन्न गुणोपेतस्सखा यस्य भवान्मम ॥ 2 ॥

शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ ।
सुरराज्यमपि प्राप्तुं स्वराज्यं किं पनः प्रभो ॥ 3 ॥

सोऽहं सभाज्यो बंधूनां सुहृदां चैव राघव ।
यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ 4 ॥

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।
न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् ॥ 5 ॥

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ।
निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ॥ 6 ॥

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च ।
अविभक्तानि साधूनामवगच्छंति साधवः ॥ 7 ॥

आढ्यो वापि दरिद्रो वा दुःखितस्सुखितोऽपि वा ।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ 8 ॥

धनत्यागस्सुखत्यागो देहत्यागोऽपि वा पुनः ।
वयस्यार्थे प्रवर्तंते स्नेहं दृष्टवा तथाविधम् ॥ 9 ॥

तत्तथेत्यब्रवीद्रामस्सुग्रीवं प्रियवादिनम् ।
लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ 10 ॥

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।
सुग्रीवस्सर्वतश्चक्षुर्वने लोलमपातयत् ॥ 11 ॥

स ददर्श ततस्सालमविदूरे हरीश्वरः ।
सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ 12 ॥

तस्यैकां पर्णबहुलां भंक्त्वा शाखां सुपुष्पिताम् ।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ 13 ॥

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।
सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ 14 ॥

सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा ।
फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ 15 ॥

ततः प्रहृष्टस्सुग्रीवश्लक्ष्णं मधुरया गिरा ।
उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ 16 ॥

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।
ऋष्यमूकं गिरिवरं हृतभार्यस्सुदुःखितः ॥ 17 ॥

सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रांतचेतनः ।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ 18 ॥

वालिनो मे भयार्तस्य सर्वलोकाभयंकर ।
ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ 19 ॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।
प्रत्युवाच स काकुत्स्थस्सुग्रीवं प्रहसन्निव ॥ 20 ॥

उपकारफलं मित्रमपकारोऽरिलक्षणम् ।
अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ 21 ॥

इमे हि मे महावेगा पत्रिणस्तिग्मतेजसः ।
कार्तिकेयवनोद्भूताश्शरा हेमविभूषिताः ॥ 22 ॥

कंकपत्रपरिच्छन्ना महेंद्राशनिसन्निभाः ।
सुपर्वाणस्सुतीक्ष्णाग्रास्सरोषा भुजगा इव ॥ 23 ॥

भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम् ।
शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ 24 ॥

राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ 25 ॥

राम शोकाभिभूतोऽहं शोकार्तानां भवान्गतिः ।
वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ 26 ॥

त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् ।
कृतः प्राणैर्बहुमतस्सत्येनापि शपामि ते ॥ 27 ॥

वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम् ।
दुःखमंतर्गतं यन्मे मनो हरति नित्यशः ॥ 28 ॥

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।
बाष्पोपहतया वाचा नोच्चैश्शक्नोति भाषितुम् ॥ 29 ॥

बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।
धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ 30 ॥

सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।
विनिश्श्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥ 31 ॥

पुराऽहं वालिना राम राज्यात्स्वादवरोपितः ।
परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ 32 ॥

हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी ।
सुहृदश्च मदीया ये संयता बंधनेषु ते ॥ 33 ॥

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ।
बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ 34 ॥

शंकया त्वेतया चेह दृष्ट्वा त्वामपि राघव ।
नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ 35 ॥

केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे ।
अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥ 36 ॥

एते हि कपयस्स्निग्धा मां रक्षंति समंततः ।
सह गच्छंति गंतव्ये नित्यं तिष्ठंति च स्थिते ॥ 37 ॥

संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते ।
स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ 38 ॥

तद्विनाशाद्धि मे दुःखं प्रणष्टं स्यादनंतरम् ।
सुखं मे जीवितं चैव तद्विनाशनिबंधनम् ॥ 39 ॥

एष मे राम शोकांतश्शोकार्तेन निवेदितः ।
दुःखितस्सुखितो वापि सख्युर्नित्यं सखा गतिः ॥ 40 ॥

श्रुत्वैतद्वचनं रामस्सुग्रीवमिदमब्रवीत् ।
किं निमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ 41 ॥

सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ।
अनंतरं विधास्यामि संप्रधार्य बलाबलम् ॥ 42 ॥

बलवान् हि ममामर्षश्श्रुत्वा त्वामवमानितम् ।
वर्तते हृदयोत्कंपी प्रावृड्वेग इवांभसः ॥ 43 ॥

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।
सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥ 44 ॥

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ।
प्रहर्षमतुलं लेभे चतुर्भिस्सह वानरैः ॥ 45 ॥

ततः प्रहृष्टवदनस्सुग्रीवो लक्ष्मणाग्रजे ।
वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टमस्सर्गः ॥




Browse Related Categories: