View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.47 अयोध्याकांड - सप्तचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ 1 ॥

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः ।
आलोकमपि रामस्य न पश्यंति स्म दुःखिताः ॥ 2 ॥

ते विषादार्तवदना रहितास्तेन धीमता ।
कृपणाः करुणा वाचो वदंति स्म मनस्विनः ॥ 3 ॥

धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ 4 ॥

कथं नाम महाबाहु स्स तथावितथक्रियः ।
भक्तं जनं परित्यज्य प्रवासं राघवो गतः ॥ 5 ॥

यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ 6 ॥

इहैव निधनं यामो महाप्रस्थानमेव वा ।
रामेण रहितानां हि किमर्थं जीवितं हि नः ॥ 7 ॥

संति शुष्काणि काष्ठानि प्रभूतानि महांति च ।
तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथ पावकम् ॥ 8 ॥

किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः ।
नीत स्स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ 9 ॥

सा नूनं नगरी दीना दृष्ट्वाऽस्मान् राघवं विना ।
भविष्यति निरानंदा सस्त्रीबालवयोधिका ॥ 10 ॥

निर्यातास्तेन वीरेण सह नित्यं जितात्मना ।
विहीनास्तेन च पुनः कथं पश्याम तां पुरीम् ॥ 11 ॥

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
विलपंति स्म दुःखार्ता विवत्सा इव धेनवः ॥ 12 ॥

ततो मार्गानुसारेण गत्वा किंचित् क्षणं पुनः ।
मार्गनाशाद्विषादेन महता समभिप्लुताः ॥ 13 ॥

रथस्य मार्गनाशेन न्यवर्तंत मनस्विनः ।
किमिदं किं करिष्यामो दैवेनोपहता इति ॥ 14 ॥

ततो यथागतेनैव मार्गेण क्लांतचेतसः ।
अयोध्यामागमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ 15 ॥

आलोक्य नगरीं तां च क्षयव्याकुलमानसाः ।
आवर्तयंत तेऽश्रूणि नयनैः शोकपीडितैः ॥ 16 ॥

एषा रामेण नगरी रहिता नातिशोभते ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥ 17 ॥

चंद्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।
अपश्यन्निहतानंदं नगरं ते विचेतसः ॥ 18 ॥

ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशंतः ।
नैव प्रजज्ञुः स्वजनं जनं वा निरीक्षमाणाः प्रविनष्टहर्षाः ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तचत्वारिंशस्सर्गः ॥




Browse Related Categories: