View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.36 युद्धकांड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्त्रिंशस्सर्गः ।

तत्तुमाल्यवतोवाक्यंहितमुक्तंदशाननः ।
नमर्षयतिदुष्टात्माकालस्यवशमागतः ॥ 1 ॥

नबद् ध्वाभ्रुकुटींवक्त्रेक्रोधस्यवशमागतः ।
अमर्षात्परिवृत्ताक्षोमाल्यवंतमथाब्रवीत् ॥ 2 ॥

हितबुध्यायदहितंवचःपरुषमुच्यते ।
परपक्षंप्रनिश्यैवनैतच्च्रोत्रगतंमम ॥ 3 ॥

मानुषंकृपणंराममेकंशाखामृगाश्रयम् ।
समर्थंमन्यसेकेनत्यक्तंपित्रावनालयम् ॥ 4 ॥

रक्षसामीश्वरंमांचदेवानांचभयंकरम् ।
हीनंमांमन्यसेकेनह्यहीनंसर्वविक्रमैः ॥ 5 ॥

वीरद्वेषेणवाशंकेपक्षपातेनवारिपोः ।
त्वयाहंपरुषाण्युक्तःपरप्रोत्साहनेनवा ॥ 6 ॥

प्रभवंतंपदस्थंहिपरुषंकोऽभिभाषते ।
पंडितश्शास्त्रतत्त्वज्ञोविनाप्रोत्साहनाद्रिपोः ॥ 7 ॥

आनीयचवनासतीतांपद्महीनामिवश्रियम् ।
किमर्थंप्रतिदास्यामिराघवस्यभयादहम् ॥ 8 ॥

वृतंवानरकोटीभिस्ससुग्रीवंसलक्ष्मणम् ।
पश्यकैश्चिदहोभिस्त्वंराघवंनिहतंमया ॥ 9 ॥

द्वंद्वेयस्यनतिष्ठंतिदैवतान्यपिसंयुगे ।
सकस्माद्रावणोयुद्धेभयमाहारयिष्यति ॥ 10 ॥

द्विधाभज्येयमप्येवंननमेयंतुकस्यचित् ।
एषमेसहजोदोषस्स्वभावोदुरतिक्रमः ॥ 11 ॥

यदितावत्समुद्रेतुसेतुर्बद्धोयदृच्छया ।
रामेणविस्मयःकोऽत्रयेवमेभयमागतम् ॥ 12 ॥

सतुतीर्त्वार्णवंरामस्सहवानरसेनया ।
प्रतिजानामितेसत्यंनजीवन्प्रतियास्यति ॥ 13 ॥

एवं ब्रुवाणं सम्रब्धं रुष्टं विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यं न उत्तरं प्रत्यपद्यत ॥ 14 ॥

जयाशिषाचराजानंवर्धयित्वायथोचितम् ।
माल्यवानभ्यनुज्ञातोजगामस्वंनिवेशनम् ॥ 15 ॥

रावणस्तुसहामात्योमंत्रयित्वाविमृश्यच ।
लंकायामतुलांगुप्तिंकारयामासराक्षसः ॥ 16 ॥

व्यादिदेशसपूर्वस्यांप्रहस्तंद्वारिराक्षसम् ।
दक्षिणस्यांमहावीर्यौमहापार्श्वमहादरौ ॥ 17 ॥

पश्चिमायामथोद्वारिपुत्रमिंद्रजितंतदा ।
व्यादिदेशमयामायंबहूभीराक्षसैर्भहुभिर्वृतम् ॥ 18 ॥

उतरस्यांपुरद्वारिव्यादिश्यशुकसारणौ ।
स्वयंचात्रगमिष्यामिमंत्रिणस्तानुवाचह ॥ 19 ॥

राक्षसांतुविरूपाक्षंमहावीर्यपराक्रमम् ।
मध्यमेऽस्थापयद्गुल्मेबहुभिस्सहराक्षसैः ॥ 20 ॥

एवंविधानंलंकायांकृत्वाराक्षसपुंगवः ।
कृतकृत्यमिवात्मानंमन्यतेकालचोदितः ॥ 21 ॥

विसर्जयामासततस्समंत्रिणोविधानमाज्ञाप्यपुरस्यपुष्कलम् ।
जयाशिषामंत्रिगणेनपूजितोविवेशचाऽंतःपुरमृद्धिमन्महत् ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: