View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.74 युद्धकांड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुःसप्ततितमस्सर्गः ।

तयोस्तदासादितयोरणाग्रेमुमोहसैन्यंहरिपुंगवानाम् ।
सुग्रीवनीलांगदजांबवंतो न चापिकिंचित्प्रतिपेदिरेते ॥ 1 ॥

ततोविषण्णंसमवेक्ष्यसैन्यंविभीषणोबुद्धिमतांवरिष्ठः ।
उवाचशाखमृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ 2 ॥

माभैष्टनास्त्यत्रविषादकालोयदार्यपुत्त्रौविवशौविषण्णौ ।
स्वयंभुवोवाक्यमथोद्वहंतौयत्सादिताविंद्रजिदस्त्रजालैः ॥ 3 ॥

तस्मैतुदत्तंपरमास्त्रमेतत्स्वयंभुवाब्राह्मममोघवेगम् ।
तन्मानयंतौयुधिराजपुत्रौनिपातितौकोऽत्रविषादकालः ॥ 4 ॥

ब्राह्ममस्त्रंततोधीमान्मानयित्वातुमारुतिः ।
विभीषणवचश्श्रुत्वाहनूमांस्तमथाब्रवीत् ॥ 5 ॥

एतस्मिन्निहतेसैन्येवानराणांतरस्विनाम् ।
योयोधारयतेप्राणांस्तंतमाश्वासयाव ॥ 6 ॥

तावुभौयुगपवदीरौहनूमद्राक्षसोत्तमौ ।
उल्काहस्तौतदारात्रौरणशीर्षेविचेरतुः ॥ 7 ॥

भिन्नलांगूलहस्तोरुपादांगुलि शिरो धरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समंततः ॥ 8 ॥

पतितैःपर्वताकारैर्वानरैरभिसंकुलाम् ।
शस्सैश्चपतितैर्दीप्तैर्ददृशातेवसुंधराम् ॥ 9 ॥

सुग्रीवमंगदंनीलंशरभंगंधमादनम् ।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ 10 ॥

मैंदं नलं ज्योतिमुखं द्विविदं पनसं तथा ।
विभीषणो हनूमांश्च ददृशाते हतान्रणे ॥ 11 ॥

सप्तषष्टिर्हताःकोट्योवानराणांतरस्विनाम् ।
अह्नःपंचमशेषेणवल्लभेनस्वयंभुवः ॥ 12 ॥

सागरौघनिभंभीमंदृष्टवाबाणार्दितंबलम् ।
मार्गतेजांबवंतंस्मिहनूमान् सविभीषणः ॥ 13 ॥

स्वभावजरयायुक्तंवृद्धंशरशतैश्चितम् ।
प्रजापतिसुतंवीरंशाम्यंतमिवपावकम् ॥ 14 ॥

दृष्टवातमुपसंग्रम्यपौलस्त्योवाक्यमब्रवीत् ।
च्चिदार्यशरैस्तीक्ष्णैर्नप्राणाध्वंसितास्तव ॥ 15 ॥

विभीषणवचश्श्रुत्वाजांबवानृक्षपुंगवः ।
कृच्छ्रादभ्युग्दिरन्वाक्यमिदंवचनमब्रवीत् ॥ 16 ॥

नैरृतेंद्रमहावीर्यस्वरेणत्वाऽभिलक्ष्ये ।
पीड्यमानशशितैर्बाणैर्नत्वापश्यामिचक्षुषा ॥ 17 ॥

अंजनासुप्रजायेनमातरिश्वा च नैरृत ।
हनुमान् वानरश्रेष्ठःप्राणान् धारयतेक्वचित् ॥ 18 ॥

श्रुत्वाजांबवतोवाक्यमुवाचेदंविभीषणः ।
आर्यपुत्रावतिक्रम्यकस्मात्पृच्छसिमारुतिम् ॥ 19 ॥

नैवराजनिसुग्रीवेनांगदेनापिराघवे ।
आर्यसंदर्शितस्स्नेहोयथावायुसुतेपरः ॥ 20 ॥

विभीषणवचश्श्रुत्वाजांबवान्वाक्यमब्रवीत् ।
शृणुनैरृतशार्दूलयस्मात् पृच्छामिमारुतिम् ॥ 21 ॥

तस्मिन्जीवतिवीरेतुहतमप्यहतंबलम् ।
हनूमत्युज्झितप्राणेजीवंतोऽपिवयं हृता ॥ 22 ॥

धरतेमारुतिस्तातमारुतप्रतिमोयदि ।
वैश्वानरसमोवीर्वेजीविताशाततोभवेत् ॥ 23 ॥

ततोवृद्धमुपागम्यनियमेनाभ्यवादयत् ।
गृह्यजांबवतःपादौहनूमान्मारुतात्मजः ॥ 24 ॥

श्रुत्वाहनुमतोवाक्यंतदाऽपिव्यथितेंद्रियः ।
पुनर्जातमिवात्मानंमन्यतेप्लवगोत्तमः ॥ 25 ॥

ततोऽब्रवीन्महातेजाहनूमंतं स जांबवान् ।
आगच्छहरिशार्दूल वानरांस्त्रातुमर्हसि ॥ 26 ॥

नान्योवक्रमपर्याप्तस्त्वमेषांपरमस्सखा ।
त्वत्पराक्रमकालोऽयंनान्यंपश्यामिकथंचन ॥ 27 ॥

ऋक्ष्वानरवीराणामनीकानिप्रहर्षय ।
शल्यौकुरुचाप्येतासादितौरामलक्ष्मणौ ॥ 28 ॥

गत्वापरममध्वानमुपर्युपरिसागरम् ।
हिमवंतंनगश्रेष्ठंहनुमन्गंतुमर्हसि ॥ 29 ॥

ततःकांचनमत्युच्चमृषभंपर्वतोत्तमम् ।
कैलासशिखरंचापिद्रक्ष्यस्यरिनिषूदन ॥ 30 ॥

तयोशशिखरयोर्मध्येप्रदीप्तमतुलप्रभम् ।
सर्यौषधियुतंवीर द्रक्ष्यस्यौषधिपर्यतम् ॥ 31 ॥

तस्यवानरशार्दूल चतस्रो मूधि संभवाः ।
द्रक्ष्यस्योषधयोदीप्तादीपय्नत्योदिशोदश ॥ 32 ॥

मृतसंजीवनींचैवविशल्यकरणीमपि ।
सुवर्णकरणींचैवसंधानकरणींतथा ॥ 33 ॥

तास्सर्वाहनुमन्गृह्वक्षिप्रमागंतुमर्हसि ।
आश्वासयहरीन् प्राणैर्योज्यगंधवहात्मज ॥ 34 ॥

श्रुत्वाजांबवतोवाक्यंहनूमान् हरिपुंगवः ।
आपूर्यतबलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ 35 ॥

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् ।
हनूमांदृश्यते वीरो द्वितीय इव पर्वतः ॥ 36 ॥

हरिपादविनिर्भग्नोनिषसाद स पर्वतः ।
न शशाकतदात्मानंसोढुंभृशनिपीडितः ॥ 37 ॥

तस्यपेतुर्नगाभूमौहरिवेगाच्चजज्वलुः ।
शृंगाणि च व्यशीर्यंतपीडितस्यहनूमता ॥ 38 ॥

तस्मिन् संपीड्यमानेतुभग्नद्रुमशिलातले ।
न शेकुर्वानरास्स्थातुंघूर्णमानेनगोत्तमे ॥ 39 ॥

साघूर्णितमहाद्वाराप्रभग्नगृहगोपुरा ।
लंकात्रासाकुलारात्रौप्रवृत्तेवाभवत्तदा ॥ 40 ॥

पृथिवीधरसंकाशोनिपीड्यधरणीधरम् ।
पृथिवींक्षोभयामाससार्णवांमारुतात्मजः ॥ 41 ॥

आरुरोहतदातस्माद्धरिर्मलयपर्वतम् ।
मेरुमंदरसंकाशंनानाप्रस्रवणाकुलम् ॥ 42 ॥

नानाद्रुमलताकीर्णंविकासिकमलोत्पलम् ।
सेवितंदेवगंधर्वैष्षष्टियोजनमुच्छ्रितम् ॥ 43 ॥

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णंबहुकंदरशोभितम् ॥ 44 ॥

सर्वानाकुलयंस्तत्रयक्षगंधर्वकिन्नरान् ।
हनुमान् मेघसंकाशोववृधेमारुतात्मजः ॥ 45 ॥

पद्भ्यांतुशैलमापीड्यबडबामुखवन्मुखम् ।
विवृत्योग्रंननादोच्चैस्त्रासयन्निवराक्षसान् ॥ 46 ॥

तस्यनानद्यमानस्यश्रुत्वानिनदमद्भुतम् ।
लंकास्थाराक्षसास्सर्वे न शेकुस्स्पंदितुंभयात् ॥ 47 ॥

नमस्कृत्वाऽथरामायमारुतिर्भीमविक्रमः ।
राघवार्थेपरंकर्मसमीहतपरंतपः ॥ 48 ॥

स पुच्छमुद्यम्यभुजंगकल्पंविनम्यपृष्ठंश्रवणेनिकुंच्य ।
विवृत्यवक्त्रंबडबामुखाभमापुफ्लुवेव्योमनिचंडवेगः ॥ 49 ॥

सवृक्षषंडांस्तरसाजहारशैलान् शिलाःप्राकृतवानरांश्च ।
बाहूरुवेगोद्धतसंप्रणुन्नास्तेक्षीणवेगास्सलिलेनिपेतुः ॥ 50 ॥

तौप्रसार्योरगभोगकल्पौभुजौभुजंगारिनिकाशवीर्यः ।
जगाममेरुंनगराजमग्य्रंदिशःप्रकर्षन्निववायुसूनुः ॥ 51 ॥

स सागरंघूर्णितवीचिमालंतथाभृशंभ्रामितसर्वसत्त्वम् ।
समीक्षमाणस्सहसाजगामचक्रंयथाविष्णुकराग्रमुक्तम् ॥ 52 ॥

स पर्वतान्वृक्षगवान् सरांसिनदीस्तटाकानिपुरोत्तमानि ।
स्फीतान् जनांतानपिसंप्रवीक्ष्यजगामवेगापतितृतुल्यवेगः ॥ 53 ॥

आदित्यपथमाश्रित्यजगाम स गतक्लमः ।
हनूमांस्त्वरितोवीरःपितृतुल्यपराक्रमः ॥ 54 ॥

जवेनमहतायुक्तोमारुतिर्मारुतोयथा ।
जगामहरिशार्दूलोदिशश्शब्देनपूरयन् ॥ 55 ॥

स्म्मरन्जांबवतोवाक्यंमारुतिर्वातरंहसा ।
ददर्शसहसागत्वाहिमवंतंमहाकपिः ॥ 56 ॥

नानाप्रस्रवणोपेतंनानाकंदरनिर्घरम् ।
श्वेताभ्रचयसंकाशैशशिखरैश्चारुदर्शनैः ॥ 57 ॥

शोभितंविविधैर्वृक्षैरगमत्पर्वतोत्तमम् ।
स तंसमासाद्यमहानगेंद्रमतिप्रवृद्धोत्तमघोरशृंगम् ।
ददर्शपुण्यानिमहाश्रमाणिसुरर्षिसंघोत्तमसेवितानि ॥ 58 ॥

स ब्रह्मकोशंरजतालयं च शक्रालयंरुद्रशरप्रमोक्षम् ।
हयाननंब्रह्मशिरश्चदीप्तंददर्शवैवस्वतकिंकरांश्च ॥ 59 ॥

वज्रालयं वैश्वरणालयं च ।
सूर्यप्रभं सूर्यनिबंधनं च ।
ब्रह्मासनं शंकरकार्मुकं च ।
ददर्श नाभिं च वसुंधरायाः ॥ 60 ॥

कैलासमग्य्रंहिमवच्छिलां च तथर्षभंकांचनशैलमग्य्रम् ।
संदीप्तसर्वौषधिसन्प्रदीप्तंददर्शसर्वौषधिपर्वतेंद्रम् ॥ 61 ॥

स तंसमीक्ष्यानलरश्मिदीप्तंविसिष्मियेवासवदूतसूनुः ।
आवृत्यतंचौषधिपर्वतेंद्रंतत्रौषधीनांविचयंचकार ॥ 62 ॥

सयोजनसहस्राणिसमतीत्यमहाकपिः ।
दिव्यौषधिधरंशैलंव्यचरन्मारुतात्मजः ॥ 63 ॥

महौषध्यस्ततस्सर्वास्तस्मिन् पर्वतसत्तमे ।
विज्ञायार्थिनमायांतंततोजग्मुरदर्शनम् ॥ 64 ॥

स तामहात्माहनुमानपश्यंश्चुकोपकोपाच्चभृशंननाद ।
अमृष्यमाणोऽनगिनिकाशचक्षुर्महीधरेंद्रंतमुवाचवाक्यम् ॥ 65 ॥

कीमेतदेवंसुविनिश्चितंतेयद्राघवेनासिकृतानुकंप ।
पश्याद्यमद्बाहुबलाभिभूतोविकीर्णमात्मानमथोनगेंद्र ॥ 66 ॥

स तस्यशृंगंसनगंसनागंसकांचनंधातुसहस्रजुष्टम् ।
विकीर्णकूटंज्वलिताग्रसानुंप्रगृह्यवेगात्सहसोन्ममाथ ॥ 67 ॥

सतसमुत्पाट्यखमुत्पपातवित्रास्यलोकान् ससुरासुरेंद्रान् ।
संस्तूयमानःखचरैरनेकैर्जगामवेगाद्गरुडोग्रवेगः ॥ 68 ॥

स भास्कराध्वानमनुप्रपन्नस्तंभास्कराभंशिखरंप्रगृह्य ।
बभौतदाभास्करसन्निकाशोरवेस्समीपेप्रतिभास्कराभः ॥ 69 ॥

स तेनशैलेनभृशंरराजशैलोपमोगंधवहात्मजस्तु ।
सहस्रधारेणसपावकेनचक्रेणखेविष्णुरिवार्पितेन ॥ 70 ॥

तंवानराःप्रेक्ष्यविनेदुरुच्चैस्सतानपिप्रेक्ष्यमुदाननाद ।
तेषांसमुध्घुष्टरवंनिशम्यलंकालयाभीमतरंविनेदुः ॥ 71 ॥

ततोमहात्मानिपपाततस्मिन् शैलोत्तमेवानरसैन्यमथ्ये ।
हर्युत्तमेभ्यशशिरसाऽभिवाद्यविभीषणंतत्र स सस्वजे च ॥ 72 ॥

तावप्युभौमानुषराजपुत्रौतंगंधमाघ्रायमहौषधीनाम् ।
बभूवतुस्तत्रतदाविशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 73 ॥

सर्वेविशल्याविरुजाःक्षणेनहरिप्रवीराश्चहताश्चयेस्युः ।
गंधेनतासांप्रवरौषधीनांसुप्तानिशांतेष्विवसंप्रबुद्धाः ॥ 74 ॥

दाप्रभृतिलंकायांयुध्यंतेहरिराक्षसाः ।
तदाप्रभृतिमानार्थमाज्ञयारावणस्य च ॥ 75 ॥

येहन्यंतेरणेतत्रराक्षसाःकपिकुंजरैः ।
हताहतास्तुक्षिप्यंतेसर्वएवतुसागरे ॥ 76 ॥

ततोहरिर्गंधवहात्मजस्तुतमोषधीशैलमुदग्रवेगः ।
निनायवेगाद्धिमवंतमेवपुनश्चरामेणसमाजगाम ॥ 77 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: